पुटमेतत् सुपुष्टितम्
૪૦
आर्चज्यौतिषं
दिनं प्राप्नोति तथा सा चतुर्दशी यज्ञार्थं वेदोक्तविधिनोपवसथो यागपूर्वदिवसो भवति । अत्र मन्मते श्लोकोत्तरार्धस्य त्रुटिः । अत्र परम्परात उत्तरार्धस्यानुष्टुप्छन्दोऽर्धेन पूर्त्तिरिति न युक्तं छन्दसोर्भेदादिति सुज्ञैर्भृशं विचिन्त्यमिति ॥
- इदानीं द्वितीयवर्षप्रवेशकालमाह ।
माघशुक्लाह्निको भुङ्क्ते श्रविष्ठायां च वार्षिकीम् ॥ ३४ ॥
माघशुक्लाह्निको द्वितीयमाघशुक्लप्रतिपत्तिथावाह्निकः कर्मकर्त्ता श्रविष्ठायां धनिष्ठायां सर्वां वार्षिकीमेकवर्षसम्बन्धिनीं यज्ञक्रियां भुङ्क्तेऽश्नुते । तस्माद्दिनादन्यवर्षारम्भोऽतो द्वितीयवर्षाह्निकक्रियारम्भो भवतीत्यर्थः । अत्रापि मन्मते पूर्वार्धश्लोकस्य त्रुटिरिति वैदिकैर्भृशं विचिन्त्यमिति ॥ ३४ ॥
- इदानीं गणितप्रशंसामाह ।
- यथा शिखा मयूराणां नागानां मणयो यथा ।
- तद्वद्वेदाङ्गशास्त्राणां ज्यौतिषं मूर्धनि स्थितम् ॥ ३५ ॥
याजुषचतुर्थश्लोकभाष्येण स्फुटम् । अत्र ‘गणितं' स्थाने 'ज्यौतिषम्' इति पाठो न विशेषार्थप्रद इति ॥ ३५ ॥
- इदानीं ज्यौतिषस्य वेदाङ्गत्वे सद्युक्तिमाह ।
- वेदा हि यज्ञार्थमभिप्रवृत्ताः
- कालानुपूर्वा विहिताश्च यज्ञाः ।
- तस्मादिदं कालविधानशास्त्रं
- यो ज्यौतिषं वेद स वेद यज्ञान् ॥ ३६ ॥
- वेदा हि यज्ञार्थमभिप्रवृत्ताः
याजुषतृतीयश्लोकभाष्येण सर्वं स्फुटम् ॥ ३६ ॥
- गुणरसाङ्गधरामितवत्सरे-
- ऽकृत निरीक्ष्य मतान्तरसंग्रहम् ।
- असितपौषदलाद्यसिते वरं
- रघुवरस्य बलेन सुधाकरः ।
- गुणरसाङ्गधरामितवत्सरे-
- इति सुधाकरभाष्यसहितमार्चज्यौतिषं समाप्तम् ।