पुटमेतत् सुपुष्टितम्
३४
आर्चज्यौतिषं
इदानीं युगादिमाह ।
- स्वराक्रमेते सोमार्कौ यदा साकं सवासवौ ।
- स्यात् तदादियुगं माघस्तपःशुक्लोऽयनं ह्युदक् ॥ ५ ॥
- याजुषस्य षष्ठश्लोकोऽयमतस्तद्भाष्यमेव द्रष्टव्यम् ॥ ५ ॥
इदानीमयनयोरादिमाह ।
- प्रपद्येते श्रविष्ठादौ सूर्याचन्द्रमसावुदक् ।
- सार्पार्धे दक्षिणाऽर्कस्य माघश्रावणयोः सदा ॥ ६ ॥
- याजुषसप्तमश्लोकेन सर्वं स्फुटमिति ॥ ६ ॥
इदानीं दिनरात्रिमानमाह ।
- धर्मवृद्धिरपां प्रस्थः क्षपाह्रास उदग्गतौ ।
- दक्षिणेतौ विपर्यासः षण्मुहूर्त्त्ययनेन तु ॥ ७ ॥
- याजुषाष्टमश्लोकेन भाष्यादिकं स्फुटम् ॥ ७ ॥
इदानीमयनाद्यमाह ।
- प्रथमं सप्तमं चाहुरयनाद्यं त्रयोदशम् ।
- चतुर्थं दशमं चैव द्विर्युग्मं बहुलेऽप्यृतौ ॥ ८ ॥
- याजुषनवमश्लोकभाष्यादिना स्फुटम् ॥ ८ ॥
इदानीमयनादिनक्षत्रदेवता ऋतुभानयनं चाह ।
- वसुस्त्वष्टा भवोऽजश्च मित्रः सर्पोऽश्विनौ जलम् ।
- अर्यमा कोऽयनाद्याः स्युरर्धपञ्चमभस्त्वृतुः ॥ ९ ॥
- याजुषदशमश्लोकभाष्यादिना सर्वं स्फुटम् ॥ ९ ॥
इदानीमभीष्टपर्वणि चन्द्रभांशानयनमाह ।
- भांशाः स्युरिष्टकाः कार्याः पक्षा द्वादशकोद्गताः ।
- एकादशगुणाश्चेन्दोः शुक्लेऽर्धं चैन्दवा यदि ॥ १० ॥
- याजुषपञ्चदशश्लोकभाष्यादिना सर्वं स्फुटम् ॥ १० ॥
इदानीं पर्वणि भांशकलानयनमाह ।
कार्या भांशाष्टकास्थाने कला एकान्नविंशतिः ।