पृष्ठम्:Jyautisha Vedangam.pdf/45

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



२८
याजुषज्यौतिषं

धिकेनैकेन रविसावनदिनेनैकं नक्षत्रं भुनक्तीत्यर्थः । एवं सूर्यश्च यावता कालेनैकं नक्षत्रं भुनक्ति स कालश्च त्रयोदश द्यूनि रविसावनदिनानि अह्नो दिनस्य पञ्च नवभागाश्च । एतैः सावनदिनै रविरकेभं भुनक्तीत्यर्थः । पञ्चभिर्गुर्वक्षरैश्चैका काष्ठा भवति ।

 अत्रोपपत्तिः । यदि युगचन्द्रनक्षत्रैः १८०९ युगभूदिनानि १८३० लभ्यन्ते तदैकेन नक्षत्रेण किम् । लब्धमेकनक्षत्रे सावनदिनमानम्= = 1+ = 1+= १ दिनम् + ७ कलाः । एवं युगरविनक्षत्रैः १३५ युगसावनदिवसास्तदैकेन रविनक्षत्रेण किं लब्धान्येकनक्षत्रे भूदिनानि = = =। पञ्चगुर्वक्षरैरेका काष्ठेति परिभाषा काष्ठातोऽपि सूक्ष्मगणनार्थं कृताऽऽचार्येणेति सर्वमुपपन्नम् । अत्र बार्हस्पत्यव्याख्यानं सर्वं समीचीनं किन्तु तच्छोधितः “ससप्तकम्" -इति पाठो मन्मते न साधुरिति ॥ ३३॥

इदानीं दिनमानमानयति ।
यदुत्तरस्यायनतो गतं स्यात्
शेषं तु यद्दक्षिणतोऽयनस्य ।
तदेकषष्ट्या द्विगुणं विभक्तं
सद्वादशं स्याद् दिवसप्रमाणम् ॥ ३४ ॥

 अयनतोऽयनारम्भदिनादुत्तरस्यायनस्य यद्गतं भूदिनमानं भवेत् । तथा दक्षिणतो दक्षिणायनारम्भदिनादयनस्य दक्षिणायनस्य यद्गतं भूदिनमानं तदयनान्तर्गतकुदिनमानात् प्रोह्य यच्छेषं दिनमानं तद्द्विगुणं फलमेकषष्ट्या विभक्तं लब्धं सद्वादशं द्वादशमुहूर्त्तसहितं तदा मुहूर्त्तात्मकं दिनमानं भवति ।

 अत्रोपपत्तिः । अष्टमश्लोकभाष्ये पूर्वमेव प्रतिपादितं यदुत्तरायणारम्भे द्वादशमुहूर्त्ततुल्यं दिनमानं षण्मासान्तरे दक्षिणायनारम्भे चाष्टादशमुहूर्त्तमानं तदन्तरं षड्मुहूर्त्तास्ततोऽनुपातो यदि षण्मासकुदिनै -१८३ रेतैः षड्मुहूर्त्तसममन्तरं तदोत्तरायणगतकुदिनैर्वा दक्षिणायनशेषकुदिनैः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/45&oldid=204640" इत्यस्माद् प्रतिप्राप्तम्