पृष्ठम्:Jyautisha Vedangam.pdf/39

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



२२
याजुषज्यौतिषं

तत् पात्त्रमाढकं कथ्यते । अतोऽस्मादाढकमानात् पूर्वाचार्यमतेभ्यो द्रोणं द्रोणमानं प्रमेयं प्रमातव्यम् । तद्द्रोणं त्रिभिः कुडवैर्विहीनं शेषं नाडिका-प्रमाणं भवेदिति सर्वं विस्तरतोऽष्टमश्लोकभाष्ये पूर्वं व्याख्यातमिह किं पिष्टपेषणेनेति ॥ २४ ॥

इदानीमिष्टतिथौ रविनक्षत्रानयनमाह ।
एकादशभिरभ्यस्य पर्वाणि नवभिस्तिथिम् ।
युगलब्धं सपर्व स्याद्वर्त्तमानार्कभं क्रमात् ॥ २५ ॥

 युगादितो वर्त्तमानपर्वपर्यन्तं यावन्ति पर्वणि “निरेकं द्वादशाभ्यस्तम्'-इत्यादिना स्युस्तान्येकादशभिरभ्यस्य संगुण्य तथा पर्वानन्तरं या तिथिस्तां तिथिं तिथिसंख्यां नवभिः संगुण्य द्वयमेकीकृत्य युगलब्धं युगे यावन्ति पर्वाणि तत्संख्यया चतुर्विंशत्यधिकशतेन लब्धं फलं सपर्व पर्वमानेन सहितं कार्यं तदा तत् क्रमात् युगादिभवश्रविष्ठादितो वर्त्तमानार्कभं वर्त्तमानसूर्यनक्षत्रं स्यात् । इदं शङ्करबालकृष्णदीक्षितव्याख्यानं समीचीनम् ।

 अत्रोपपत्तिः । युगे सूर्यनक्षत्राणि = ५ x २७ = १३५ । चान्द्र पर्वाणि च = १२४ । ततोऽनुपातो यदि युगपर्वभिर्युगरविनक्षत्राणि तदेष्टपर्वभिः किमिति लब्धानि नक्षत्राणि = १३५ प/१२४ = प+११प/१२४ । अथैकेन पर्वणा वा पञ्चदशतिथिभिर्यदि रविनक्षत्रमानम् इदं तदेष्टतिथिभिः किमिति लब्धं तिथिसम्बन्धिरविनक्षत्रमानम् = (१३५ ति/१५ x १२४) = ९ ति/१२४ । द्वयोर्योगेन जातं युगादितो रविमानम् = प + (११ प+९ ति/१२४) । अतः श्रविष्ठादिगणनया वर्त्तमानतिथावर्कनक्षत्रं स्यादित्युपपन्नम् । अत्र बार्हस्पत्यव्याख्यानं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/39&oldid=204594" इत्यस्माद् प्रतिप्राप्तम्