पृष्ठम्:Jyautisha Vedangam.pdf/37

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



२०
याजुषज्यौतिषं

 अत्रोपपत्तिः । अतीतपर्वभागास्तद्दिने पर्वणो भोगभागाः । अथैकतिथौ रविसावनभागानयनार्थमनुपातो यदि १८६० तिथिभिः १८३० सावनदिनानि लभ्यन्ते तदैकतिथौ किमिति लब्धः सावनदिनावयव: = १८३० ति/१८६० = ६१ति/६२ = ति- ति/६२ वा ति- समानि दिनानि-२ ति - भागाः । अत्र दिनानां प्रयोजनाभावात् द्विगुणतिथिसमा भागाः पर्वभागेभ्यो विशोधितास्ते वर्त्तमानतिथेर्भोगभागा भवन्तीति बार्हस्पत्यव्याख्यानं गणितं च समीचीनमिति ॥ २३ ॥

इदानीमभीष्टविपुवत्समये युगादितः पक्षतिथ्यानयनमाह ।
विषुवत् तद्द्विरभ्यस्तं रूपोनं षड्गुणीकृतम् ।
पक्षा यदर्धं पक्षाणां तिथिः स विषुवान् स्मृतः ॥ २३ ॥

 “समरात्रिदिवं कालं विषुवद्विषुवं च तत्"- इत्यमरः । विषुवच्चैकस्मिन् सौरवर्षे सायनमेषादौ सायनतुलादौ भवतीति वर्षमध्ये वारद्वयं भवति । ज्यौतिषवेदाङ्गे रविचन्द्रादीनां समानवेगेन चलनाद्द्वयोर्द्वयोर्विपुवतोर्मध्ये समानान्येव सौरचान्द्रदिनानि भवन्तीति प्रसिद्धम् । विषुवत् युगादितोऽभीष्टविषुवतः संख्यात्मकं यन्मानं भवेत् तद्द्विर्द्विकेनाभ्यस्तं गुण्यं गुणितफलं रूपेणैकेनोनं शेषं षड्गुणीकृतं षड्गुणं कार्यम् । इदं गुणनफलं स्वविषुवति युगादितः पक्षा भवन्ति तथाऽऽगतानां पक्षाणां यदर्धं यद्दलं स एव विषुवान् तिथिः स्मृत आचार्यैरिति । “तिथिर्द्वयोः”-इति लिङ्गानुशासनात् तिथिशब्दः पुंलिङ्गेऽपि ।

 अत्रोपपत्तिः । माघशुक्लादेर्युगादेः सौरमासत्रयान्तरे प्रथमं विषुवत् । अतो युगादिप्रथमविषुवतोर्मध्ये यदि ६० सौरैर्मासैर्युगचान्द्रपक्षा १२४ लभ्यन्ते तदा सौरमासत्रयेण किमित्यनुपातेन लब्धाः पक्षाः = = क्षेपाख्याः । अथ द्वयोर्विषुवतोर्मध्ये षट् सौरा मासाः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/37&oldid=204589" इत्यस्माद् प्रतिप्राप्तम्