पृष्ठम्:Jyautisha Vedangam.pdf/34

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



१७
सुधाकरभाष्यसहितम् ।

त्र्यधिकषट्शतमितान् भागान् कृत्वैकस्य भागस्य संज्ञा कला कृता । तत एकस्मिन् चन्द्रनक्षत्रे एकं कुदिनं सप्तकला वा ६०३ + ७ = ६१० कला भवन्ति । वक्ष्यति चांऽऽचार्यः “ससप्तैकं भयुक् सोमः”-इति । पुनरेककलायां चतुर्विंशत्यधिकशतसमान् भागान् कृत्वा एकभागस्य काष्ठासंज्ञा कृता । इदमपि वक्ष्यति चाचार्यः “काष्ठानां चैव ताः कला"-इति । ततोऽनुपातो यद्येकचन्द्रनक्षत्रेण वा चतुर्विंशत्यधिकशतभांशैः ६१० कला लभ्यन्ते तदा चतुर्भिर्भांशैः किम् । लब्धा एकाष्टकायां कलाः = = = =१९ कलाः + ८४ काष्ठाः । अत उपपन्नं सर्वम् । अत्र बार्हस्पत्यव्याख्यानं तदुपपत्तिश्च न साध्वीति ॥ १९ ॥

इदानीमिष्टतिथितुल्ये गतनक्षत्रे तत्कलानयनमाह ।
या: पर्वभादानकलास्तासु सप्तगुणा तिथिः ।
युक्ता ताश्च विजानीयात् तिथिभादानिकाः कलाः ॥ २० ॥

 पूर्वप्रकारेण पर्वसमये या भादानकला आगतास्तासु सप्तगुणतिथिर्युक्ता ताश्च गणकस्तिथिभादानकलास्तिथितुल्ये गतभे सति आदानकला ग्रहणयोग्याः कला विजानीयात् । यदि पर्वतो गततिथिसंख्यासममेव गतनक्षत्रमानं तदा पर्वभादानकलासु सप्तगुणा तिथिर्योज्या । योगसमास्तिथितुल्ये पर्वतो गतभे तस्यादानकला भवन्ति ।

 अत्रोपपत्तिः । तिथितुल्ये पर्वतो गतभे तिथिसंख्यासमा गतनक्षत्रसंख्या । एकैकस्मिन् नक्षत्रे तु एकं कुदिनं सप्तकलाधिकं भवति “ससप्तैकं भयुक् सोमः”-इति वक्ष्यमाणवचनात् । अतो दिनस्य प्रयोजनाभावात् पर्वभादानकलासु सप्तगुणा तिथिर्युक्ता ताश्च तिथिदिने भस्यादानकला भवन्तीति स्फुटम् । अत्र बार्हस्पत्यव्याख्यानं न स्फुटमिति ॥ २० ॥

 
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/34&oldid=204554" इत्यस्माद् प्रतिप्राप्तम्