पृष्ठम्:Jyautisha Vedangam.pdf/32

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



१५
सुधाकरभाष्यसहितम् ।

चान्द्रनक्षत्राणि = १८०९ पूर्वमेव १५ श्लोक-भाष्ये लिखितानि । अथ यदि पर्वगणमानम् = प, तत्रत्यगतनक्षत्रमानम् = न । वर्त्तमाननक्षत्रस्य गता भांशाश्च = भा, तदा यदि १२४ पक्षैः पर्वभिर्वा १८०९ नक्षत्राणि लभ्यन्ते तदा प-पर्वभिः किमिति लब्धानि न-नक्षत्राणि शेषाणि भा-भांशाः । अतो लब्धिगुणो हरः शेषयुतो भाज्यराशिसमः । तेन १८०९ प =

१२४ न + भा, अतः

। अत्र पमानमभिन्नम् । अतः कुट्टकेन रूपक्षेपे ।

नक्षत्राणां सप्तविंशतेरल्पत्वात् भा-वशेन गतनक्षत्राणि = ५ भा । अत्र भा-मानस्य हरा-२२४ ल्पत्वात् भा-मानं १,२,३, ............ , १२४ । इत्यादिभिरुत्थाप्य श्रविष्ठादिगणनया जावादिनक्षत्रक्रमाण्युत्पद्यन्ते ।

 यथा यदि भांशमानम् = भा = १ तदा गतनक्षत्रसंख्या = न = ५ श्रविष्ठातः क्रमगणनया गतभं रेवती वर्त्तमाननक्षत्रं चाश्विनौ ”’जौ”’ वा । एवं यदि भा = २ तदा गतनक्षत्रसंख्या = १० । श्रविष्ठातः क्रमगणनया गतनक्षत्रं मृगशिरो वर्त्तमानं चार्द्रा वा द्रा-इति । एवमन्यानि पाठपठितान्यायान्तीति । अथ यदि भा = २७ इ + शे तदा गतनक्षत्रसंख्या = २७ × ५ × इ + ५ शे सप्तविंशतितष्टेन गतनक्षत्रसंख्या = ५ शे । अतः सप्तविंशतितष्ट-भांशमानेन एकद्व्यादिसमेन पुनःपुनस्तान्येव नक्षत्राणि समायान्ति । एवं लब्धिमानम् “१७ भा” अस्मिन् भास्थाने १,२,३,....१२४ उत्थापनेन पर्वमानं समायाति । यथा यदि भा= १ तदा पर्वमानम् = १७ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/32&oldid=204513" इत्यस्माद् प्रतिप्राप्तम्