पृष्ठम्:Jyautisha Vedangam.pdf/31

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
याजुषज्यौतिषं

इदानीमनन्तरोक्तसङ्केतेन पक्षान्ते भांशज्ञानतो नक्षत्रमाह ।
जावाद्यंशैः समं विद्यात् पूर्वार्धे पर्व तूत्तरे ।
भादानं स्याच्चतुर्दश्यां द्विभागेभ्योऽधिके यदि ॥ १७ ॥

 पर्वसमये अंशैर्भांशैः समं तुल्यं जौ-आदि नक्षत्रं गणको विद्यात् जानीयात् । अत्रैतदुक्तं भवति । पर्वकाले “भांशाः स्युरिष्टकाः कार्याः पक्षा द्वादशकोद्गताः” इति पूर्वोदितप्रकारेण ये भांशाः समागतास्तत्संख्या ‘जौ द्रा गः खे'-इत्यादि क्रमेण गणनया यस्मिन् नक्षत्रे स्यात् तदेव पर्वणि नक्षत्रं स्यात् । यथा यदि भांशमानम् = २ । तदा क्रमगणनया द्वितीयं द्रा आर्द्राभं स्यात् । एवं यदि भांशमानम् = २७ । तदा क्रमगणनया सप्तविंशतिसंख्याकं ष्ठाः श्रविष्ठाभं स्यात् । यदि भांशमानम् = २८ तदेदं सप्तविंशतितष्टं शेषेणैकेन समं पुनर्गणनया जौ अश्विनीभं स्यात् । एवं कस्मिँश्चिद्भांशमाने सप्तविंशतितष्टतो नक्षत्रं स्यात् । तस्य वर्त्तमानस्य भस्य चानीता भांशा गताः स्युरित्यर्थः । अथ दिनस्य रविसावनदिनस्य पूर्वार्धे मध्याह्नात् प्राक् पर्व भवेत् तदा तस्मिन्नेव दिने पर्व ज्ञेयं तदैव स्नानदानादिकं कार्यमिति । यदि तूत्तरे दिनस्योत्तरार्धे पर्व तथा द्विभागेभ्यो द्विपादभगेभ्योऽधिके भांशमाने तदा तद्दिने चतुर्दश्यामेव पूर्वविधिनाऽऽगतस्य भस्यादानं ग्रहणं कार्यम् । अत्रैतदुक्तं भवति । भागद्वयमतिक्रम्य मध्याह्नानन्तरं यदि पर्व तदा तद्दिने न दर्शपौर्णमासप्रारम्भः किन्तु स्नानदानादिकर्मणि तद्दिने उदये चर्तुदशी ज्ञेया पूर्वविधिनाऽऽगतनक्षत्रस्य ग्रहणं च तस्यां चतुर्दश्यामेव कार्यम् । ज्यौतिषवेदाङ्गेऽयं श्लोकः ‘जौ द्रा ग'-इत्यादि श्लोकस्य प्राक् प्रमादतो विलिखतः ।

 अत्रोपपत्तिः । एकस्मिन् युगे चान्द्रपर्वाणि वा पक्षाः = १२४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/31&oldid=204493" इत्यस्माद् प्रतिप्राप्तम्