पृष्ठम्:Jyautisha Vedangam.pdf/25

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्











इदानीं मासान्तरे दिनानयनं पर्वविशेषं चाह ।
एकान्तरेऽह्नि मासे च पूर्वान् कृत्वाऽऽदिमुत्तरः ।
अर्धयोः पञ्चपर्वाणां मृदू पञ्चदशाष्टमौ ॥ ११ ॥

 पूर्वान् वारानादिं कृत्वा एकान्तरेऽह्नि मासे चोत्तरो दिवसो ज्ञेयः । यस्मिन् चान्द्रे मासे यो वारस्तदग्रिमे चान्द्रे मासे तदुत्तरो वारो ज्ञेयः । यथा यदि प्रथमचान्द्रमासारम्भे रविवारस्तदा द्वितीयमासारम्भे चन्द्रवारो भविष्यति चान्द्रमासस्यैकोनत्रिंशत्सावनदिनात्मकत्वादिति स्फुटम् ।

 १४ श्लोके यानि दिवसस्य पञ्चभागात्मकानि पञ्चपर्वाणि तेषामर्धयोः खण्डयोर्यौ पञ्चदशाष्टमौ खण्डौ तत्र रवेस्तेजोमन्दात् मृदू ज्ञेयौ । तौ द्वौ मृदुसंज्ञौ ज्ञेयावित्यर्थः ॥ ११ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/25&oldid=204448" इत्यस्माद् प्रतिप्राप्तम्