१मः ६८-७०] सन्धिप्रकरणम् ३१ -- - - यमुनायाअर्घः; गोप्यायासनम् = गोप्याआसनम् ; विष्णविह=विष्ण इहः; कृष्णावत्र=कृष्णाअत्र। यवाविमावीषत्स्फ्शनावीषत्स्पश तरौ च मतौ ॥६८ ६९ । तेषां न सन्धेिनत्यम् । तेषां य-व-लोपिनां नित्यं सन्धिर्न भवति । प्रतिषेधोऽयम् । कृष्ण डत्कर्षः, यमुनायाअर्घः, गोप्याआसनम्, विष्णइह इत्यादि ॥६६॥ ७०। ओरामान्तानामनन्तानां चाव्ययानां सर्वेश्वरे। ओरामान्तानामनन्तानाञ्च केवलानामव्ययानां सर्वेश्वरे परे सति पूर्वस्य च परस्य च सन्धिर्न भवति- नोडपेन्द्र ; नोअच्युतः। कथं तद्धिते वि-प्रत्ययान्तस्य ‘गो-शब्दस्याव्ययत्वे सति ‘गोऽभवत् इति ? गोऽभवत्’ इत्यत्र ‘लाक्षणिक-प्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' इति न्यायेन स्यात् । ६६ । तेषाम् । वाऽनुवृत्ति-शङ्कानिरासार्थं नित्यमिति कृतम् ।। ७० । ओरा । ए-ओभ्यामस्य हर इत्यादिना प्राप्तेऽयं प्रतिषेध ओरामान्तानामव्ययानाम् अनन्तानाञ्च केवलानामव्ययानामित्यर्थः । ओरामान्तानां विष्णुजनसंयुक्तत्वेन केवलत्वाभावात् । अथवा वृत्त्युक्त- केवलशब्देन सर्वेषामेवाव्ययानां केवलत्वं लक्ष्यते, तस्मादोरामान्ताव्यया नामपि केवलत्वं लाक्षणिकौरामान्तं वर्जयित्वा प्रतिपदोक्तत्वापेक्षयोक्तम् । सविशेषणे विधिनिषेधौ विशेषणमुपसंक्रामतः सति बिशेष्ये वाधे' इति न्यायात् । तेन नऊ पक्रान्तस्याव्ययस्यापि केवलत्वञ्चेति अन्यथा गोऽभव दित्यादावप्यतिव्याप्तिः स्यात्। ‘अलक्ष्ये लक्षणगमनमतिव्याप्तिः। ‘लक्ष्ये लक्षणगमनं व्याप्तिश्चेति । न इति निषेधार्थम् । कथमिति ननु अगौ गौ' रभवदित्यर्थं तद्धिते सर्वेऽद्विप्रत्ययान्तस्य गोशब्दस्याव्ययत्वे सति गो अभवदित्यत्र गोऽभवदिति कथं सिद्ध्यतु इत्याक्षेपे सिद्धान्तमाह लाक्षणि केति । लाक्षणिक-प्रतिपदोक्तयोरित्यत्र मध्ये इति शेषः । प्रतिपदोक्तं प्रति स्थानोक्तं, स्वभावसिद्धमित्यर्थः । ‘पदं व्यवसितत्राण-स्थान-लक्ष्मांधूि
पृष्ठम्:Harinamamrita vyakaranam.pdf/62
दिखावट