१मः २६३१] संज्ञात्रकरणम् AAAAAA २६ । त एतद्वर्जिता विष्णुदासाः । हरिवेणुवजता विष्णुवर्मा विष्णुदासनामानः क ख ग घ, च छ ज झ, ट ठ ड ढ, त थ द ध, प फ ब भ । एते ‘झपः' च ॥२६॥ २७ । य-र-ल-वा हरमित्राणि । ‘अन्तस्थाः, ‘षणः च । एते सविष्णुचापा, निविष्णचापाश्च ॥२७॥ २८। श-ष- स -ह हगिोत्राणि । ‘उष्माणः, ‘षिटः, ‘शलःच ॥२८॥ २९। श-ष-साः शौरयः । ‘शरः’ च ॥२६॥ ३०। विष्णुदास -ह.गोत्राणि वैष्णवाः । एतानि ‘वैष्णव’-नामानि - क ख ग घ, च छ ज झ, ट ठ ड ढ, त थ द ध, प फ ब भ, श ष स ह । एते ‘धुटः, ‘भलःच ॥३०॥ ३१ । हरगदा-हरिघोष-हरिवेणुहरिमत्राणि-हश्च गोपालाः । एते ‘गोपालनामानः ग घ ङ, ज झ अ, ड ढ ण, द ध न, व भ म, य र ल व ह ; एते ‘घोषवन्तः, 'हशः’ च ॥३१॥ २६ । त एतद्वजिता । सुगमम् । विष्णोदसाः--बिष्णुदासाः ; विष्णुदासशब्देन सारंग-पत्रि-प्रभृतय उच्यन्तेऽतो भगवन्नामता ।। २७ । य र । सुगमम् । हरेमित्रं--हबिमित्रं । हबिमित्रशब्देन नन्दादिरुच्यते, यन्मित्रं परमानन्दमिति स्मरणात्, अतोऽस्य भगवन्नामता ।। २८ । श ष स ह । सुगमम् । हरेर्गात्रं--हरिगोत्रं । हरिगोत्र शब्देन कन्दर्प-सांवादय उच्यन्ते, इति भगवन्नामता । २६ । श ष स । सुगमम् । शौरि-शब्देन वसुदेवादय उच्यन्ते, इत्यस्य भगवन्नामता ।। ३० । विष्णु । वैष्णव-शब्देन विष्णुधिदैवताः शुकप्रह्रादादयः कन्दपीदयश्च उच्यन्तेऽत एषामुभयेषां विष्णुधिदैवत्वेन वैष्णवनामता ।। ३१ । हरिगदा। सुगमम् । अत्र गोपालशब्देन गोपरूपिणो भगवतः
पृष्ठम्:Harinamamrita vyakaranam.pdf/46
दिखावट