सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/41

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीहरिनामामृतव्याकरणम् [ १मः ४-७ NAAAAA += AAAAAAAA++++++++ ० ० ० = ० ० ० एकात्मकौ एवम् उ ऊ इत्यादि। अत्र ‘सवर्ण-संज्ञा च। प्रत्येकमे कात्मकत्वं स्पष्टमेवेति परस्परार्थमिदं सूत्रम् ॥ ४ ॥ ५ । पूर्वो वामनः । तेषामेकात्मकानां पुर्वपुर्वो वर्णा ‘वामन-नामा- अ इ उ ऋ लु। एते ‘ह्रस्वाः, निलं स्वाः च ॥ ५ ॥ ६ । पर ख.बक्रमः । तेषामेकात्मकानां परपरो वर्णः ‘त्रिबिक्रम'नामा –आ ई ऊ ऋ. ल। एते दीर्घःच ॥ ६ ॥ ७ । त्रिमात्रो महापुरुषः । त्रिमात्रत्वेनोच्चार्यमाणो वर्णा वामनत्रिबिक्रमश्च ‘महापुरुष' संज्ञः स्यात्। एष दूराह्वाने गाने रोदनादौ च प्रसिद्धः । 'प्लुत' संज्ञश्च, यथोक्तम् -- एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लतो ज्ञेयो व्यञ्जनञ्चार्धमात्रकम् ॥ इति । आदित्रयस्य कुक्कुट-रुतौ क्रमेण प्रसिद्धिः। अत्र महापुरुषे वामनमपि त्रिबिक्रममुच्चारयन्ति लिखन्ति च तज्ज्ञाः। आगच्छ भो विष्णुमित्रा ३ आगच्छ। आगतोऽस्मि भो विश्वपा ३ आगतोऽस्मि ॥७॥ एकात्मकशब्दस्य भगवन्नामता। प्रत्येकमिति अतावित्यर्थः । परस्परमिति अदातावित्यर्थः । एवमन्यत्रापि ज्ञेयम् ।। ५। पूर्व इति । त्रिबिक्रमापेक्षया वलेरध्वरगतस्य भगवतः प्रथमतो ह्रस्व-विग्रहप्रकटनेनैव वामनत्वं प्रसिद्धम्, इति भगवन्नामता । । ६ । पर इति । वामनापेक्षया पश्चाद्वलेः सकाशात् त्रिपादभूमि याचनेन भगवतो वृहद्वपुः प्रदर्शनात् त्रिबिक्रमत्वम्, इत्यस्य भगवन्नामता ( ।। ७। त्रिमात्र इति । महापुरुषशब्देन सर्वसल्लक्षणान्वितपुरुष उच्यते, स भगवानेव नान्योऽतोऽस्य भगवन्नामता । । अत्र शास्त्रान्तरस्य लक्षण मुच्यते न्यग्रोधपरिमण्डलो महापुरुषः । 'पञ्चदीर्घः पञ्चसूक्ष्मः सप्तरक्तः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Harinamamrita_vyakaranam.pdf/41&oldid=160325" इत्यस्माद् प्रतिप्राप्तम्