श्रहरिनामामृतव्याकरणम् [ १मः २ २ तत्रादौ चतुर्दश सर्वेश्वराः । तस्मिन् वर्णक्रमे आदौ चतुर्दश वर्णाः ‘सर्वेश्वरनामानो भवन्ति अ आ इ ई उ ऊ ऋ ऋ लु लु ए ऐ ओ औ । एते ‘स्वराः ‘अचः च प्राचीनानाम् । एते स्वतन्त्रोच्चारणाः । कादीनामुच्चारणचषा वाक्यरूपाथो वैखरी । इति वाचामवस्थाः स्युर्मुखमध्ये तदिन्द्रियम् । अर्थ-प्रयत्नयोर्ववयात् श्रुतादनुमितान्मतात् । विशिष्टं खं मुखं राति विखरा सैव वैखरी जायते प्रादुर्भवति । तथाच भगवद्वाक्यम्-‘ओम् इत्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ’ इति । ननु स क इत्याह-अ आ इत्यादि । अत्र क-ष-संयोगे ’क्ष’ इति वक्ष्यमाणत्वेऽपि क्ष-रामश्च दर्शितः । एते इति । एते अरामादयो वर्ण अक्षराणि अलश्चोच्यन्ते इत्यन्वयः । सर्वेषामेव वर्णानां सामान्यतो नारायणादुत्पत्तिमुक्ता कः कतो उत्पन्न इति पुर्नावशेषमाह-एषामिति । अ आ । अ-आ-कवर्ग-ह-विसर्गाणामुद्भवस्थानं नारायणस्य कण्ठो भवतीति हेतोरेते कण्ठया उच्यन्ते, एवमुत्तरत्रापि यथा योग्यमूह्यम् । यथोक्तमन्यैः-‘हत-कण्ठ -जिहुँ खलु तालु-मूर्ध-दन्तास्तथोष्ठावथनासिका च। वर्णप्रकोष्ठान्यध-ऊर्धभेदानीत्याह चाष्टावुपदेशतोऽन्यत् ।’ तथाच शिक्षाकारा आहुः-—'अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलंच दन्ताश्च नासिकौष्ठंच तालु च ।।' इति । एदैतोः कण्ठतावित्यत्र क्रमेणेष्टः। तेन एरामस्य ऐरामस्य च कण्ठतालूद्भवस्थानमित्यर्थः; तदपि युगपदेवेति बोद्धव्यम् । ओदौतोः कण्ठौष्ठमिति । वकारस्य दन्तौष्ठमित्यत्रापि युगपदेवेति वोद्धव्यम् । यद्यपि दन्तौष्ठमित्युक्तं तथापि अविष्णुवर्गीयस्यास्य व्यवहारात् सर्वत्र दन्त्यत्वेनैव प्रसिद्धि । कण्ठताल, कण्ठोष्ठं, दन्तौष्ठमिति ‘प्राण्यं- गानाम्' इति समाहारःसमाहारे ब्रह्मत्वमेकत्वंचेति । इत्यादिनीत्यस्य उद्भवस्थानानत्यननान्वयः ।। २। संज्ञाच परिभाषा च विधिनियम एव च । अतिदेशोऽधिकारश्च इति सूत्राणि षविधानि तेषु प्रथमनिदिष्टतया संज्ञाया एव प्राधान्यात्
पृष्ठम्:Harinamamrita vyakaranam.pdf/39
दिखावट