सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/38

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संशप्रकरणम् एषामुद्भवस्थानानि-अ-आ-कवर्ग-हविसर्गाणां कण्ठः; इ-ई-च- वर्गयशानां तालु ; उपवर्गाणामोष्ठ; ऋ-ऋ-टवर्गषाणां मूद्ध लु-लुन्तवर्ग-ल-सानां दन्ताः ; एदैतोः कण्ठतालू; ओदौतोः कण्ठौष्ठम् वकारस्य दन्तौष्ठम् ; अनुस्वारस्य शिरोनासिका वा इत्यादीनि ॥१॥ भधातोः गत्यर्थकर्मकेत्यादिना कर्तरि भूतकाले क्तः । अत्राख्यात वन्मुख्यत्वेनाकांक्षा-पूरकत्वान्न क्रियान्तरापेक्षा । अयमिति ‘इदमोऽयं सौ ' इत्यनेन वर्णक्रमविनिर्देशे इदमोरूपम् । वर्णक्रम इतिवर्णश्चासौ क्रम- श्चेति क्रमस्य विशिष्टतानुत्पत्तेः वर्णेभ्यो वर्णानां वर्णेषु वा क्रम इति जन्य सम्बन्धविशेषस्वरूपस्य लभ्यत्वेनैव वर्णानां क्रियायं व्यावत्तिवारणाय च वर्णायै क्तः क्रम इति मध्यपदलोपी तृतीयाकृष्णपुरुषः सभ्यः । तुलस्युदकम् अनन्ताय दातव्यमितिवत् वर्णानि उद्भूतानि तत्क्रमश्च उद्भूत इत्यर्थः । यदा तु वर्णाः सहितः क्रम इति तदगम्ये सहशब्दे विष्णुभक्त्यर्थः-गुप्तत्वात् तत् समस्त एव न सार्वत्रिको यत्र यत्र समासेन विष्णुभक्त्यर्थगुप्तः स्यात् नातिव्यक्तश्च स्यात्तत्र तत्र न समास इष्ट इति वक्ष्यमाणत्वात् । वर्ण द्विजादौ शुक्लादौ स्तुतौ वणं तु वाक्षरे इति नानार्थवर्गः । क्रमः परि पाटिः। तेन भगवतः श्रीनारायणस्य तदितरेषांच मुखोद्गतत्वेन कण्ठादि अभिहितारामादीनामुच्चारणभेदसौष्ठवं दशतम् । अन्यथा वर्ण इत्येव कृते अत्यनुक्रमत्वेनैव यथेष्टोच्चारणम् । नारायणादित्यनेन वर्णानां नित्यत्वं तदंशभतत्वच दशितम् । अयमित्यनेन--‘नखवाहरुपादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्ण गणैविप्रादयः पृथक् ।।' इति श्रीभागवतोक्तत्वात् वर्णा द्विजादावित्यादि शासनाच्च कथं विप्रादिक्रमो नोच्यते इति पूर्वपक्षोऽपि निराकृतः । यस्मान्नारायणादयं वर्णक्रमः प्रादुर्भूतः स एवास्मदादीनाच मूलाधारादि-षट्चक्रानधितिष्ठन् सूक्ष्म- वागाद्यवस्थावता प्रणवंरूपेण वर्णक्रमात्मकोऽपि भवति तद्यथा—आत्मा बुद्ध्या सामयीथीन् नियुक्ते तद्विवक्षया । मनस्तद्वह्निमाहन्ति स प्रेरयति मारुतम् । वह्नि मारुतसंयोगात् क्षोभाद्वागिन्द्रियस्य च । सूक्ष्मा बाक जायते पूर्वं स एव कथित ध्वनिः । तत्तत् स्थनेष्वथ यदा वायुश्चलति सेन्द्रियः। पश्यन्ती वर्णरूपा वाक् तत उत्पत्तिमर्हति । मध्यमा पदरूपाथो

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Harinamamrita_vyakaranam.pdf/38&oldid=160322" इत्यस्माद् प्रतिप्राप्तम्