सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/32

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीश्रीगुरु-गौरांगौ जयतः । श्रीहरिनामामृतव्याकरणम् प्रन्थारम्भः श्रीश्रीराधाकृष्णाभ्यां नमः कृष्णमुपासितुमस्य स्रजमिव नामावलिं तनबै । त्वरितं वितरेदेषा, तसाहित्यादिजामोदम् ।। [१] श्रीश्रीराधाकृष्णाभ्यां नमः । बन्दे तं कृष्णचैतन्यं तस्य भक्तगणं तथा । यस्य प्रसादादज्ञोऽपि सद्यः सर्वज्ञतां व्रजेत् ।। गदाधरं रूपसनातनञ्च श्रीभट्टयुग्मं रघनाथदासम । श्रीजीबदेवं परमं कृपालुमानन्दसिनः शिरसा नमामि । हरिनामामृतं वन्दे विष्णोः शब्दानुशासनम् । निखिलाघहरं कृष्णलीलानामयुतं शुभम् ।। अहञ्च भाष्यकारश्च कुशाग्रीयधियावुभौ। नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः ।। इति पाणिनिमुनिना यदुक्तं, तथापि -- श्रीलश्रीजीवगोस्वामिचरणाब्जाग्रमाश्रितः । बालोप्यहं तितीर्षामि हरिनामामृतार्णवम् । ततः परम-कूपासरित्पति-परमेश्वरेण निजगुणनाम-गण-कीर्तन-गरिम प्रेम-प्रकाशातिस्निग्धीकृत पाषण्ड-दानवघटाघटित-दुर्घटोद्दामपावकज्वाला ज्वलित ब्रह्माण्डभाण्डेनैव विखवकृत-विशंकटतर-दोर्दण्डगर्वपर्वतनिभ

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Harinamamrita_vyakaranam.pdf/32&oldid=160315" इत्यस्माद् प्रतिप्राप्तम्