[ द्वितीयम् ] अथ विष्णुपदप्रकरणम् [६] य एकः सर्वरूपाणां सर्वनाम्नां तथाश्रयः । तस्य विष्णोः पदं सर्वं विष्णुभक्त्या निरूप्यते । अथ नामजानि विष्णपदानि
- नाम्नो जातानि यानि विष्णुपदानि, अथानन्तरं तानि निरूप्यन्ते ।
१४८। अधातुविष्णुभक्तिकमर्थवन्नाम । श्रीश्रीहरिः । यमर्थं वक्तुकामेन शब्दग्रामः प्रवर्तते । तस्य विष्णोः पदं कार्तस्य व्याचक्षेऽहं यथामति । [६] पदनिरूपणमपि विष्णुसन्बन्ध्यनुशीलनमेव भवतीति प्रतिपादयन तदारभते य एक इति । यो विष्णुरेक एव सर्वरूपाणां सर्वपदानां कृष्ण इत्यादीनां भवतीत्यादीनांच तथा सर्वनाम्नां सकलशब्दानामाश्रय आस्पदं स्थानमिति यावत् । तस्य विष्णो विष्णुसम्बन्धि सर्व पदं कृष्ण इत्यादिकं भवतीत्यादिकंच विष्णुभक्या विभक्त्या निरूप्यते साध्यत इत्यर्थः। सव नाम्नामित्यनन कृत् समास जादीनां ग्रहणं तथाभूवादीनांच ग्रहणं तेषामव्यय त्वेन नामत्वात् दर्शनादौ शब्दत्वेन निदिष्टाच्च । तथाच यः सर्वरूपाणां सर्वशरीराणां तथा सर्वसंगानामाश्रयस्तस्य विष्णोः सर्व पदं स्थानं वैकुण्ठा- दिकं विष्णुभक्त्यैव निरूप्यते अलं केनचिदिति शेषः। तत्रच प्रथमं नामज विष्णुपदानामेवं निरूपणं कर्तव्यमित्याह अथेति ।। १४८ । अधातु । विष्णुभक्त्य एव विष्णुभक्तिकाः स्वार्थों कप्रत्ययस्तद्धितः लक्षणया विष्णुभक्त्यन्तानि पदानि वा गृह्यन्ते । धातुपदेन धातुत्वानि वा धातुत्वादिनीति केवल सत्तादि सिद्ध क्रियावाचि भू प्रभूति धातुपराणीत्यर्थः। अनेनानुसन्धानेन भूप्रभृतीनां विष्णुपदानां विष्णु भक्तीनांच ग्रहणमत्र सूचितमिति । धातवश्च विष्णुभक्तिकाश्च तासां समाहारः धातुविष्णुभक्तिकं समाहारे ब्रह्मत्वमेकत्वंचेति ब्रह्मत्वमेकत्वं च ततश्च न धातुविष्णुभक्तिक मधातुविष्णुभक्तिकमिति विग्रहः । धातु