सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीहरिनामामृतव्याकरणम् [१मः १४४-१४५ १४४। र ईश्वरात् सर्वेश्वरगोपालयोः। ईश्वरात् परो विष्णुसणें ररामः स्यात्, सर्वेश्वरगोपालयोः परयोः हरेः+इदम् = हरेरिदम् उ हरिः + गच्छति = हरिर्गच्छति ॥ १४४ ॥ १४५ । अनीश्वरादपि रामजः । स एव विष्णुसगै यदि रामजातस्तदा ईश्वरादनीश्वरादपि च । परो रामः स्यात्, सर्वेश्वर गोपालयोः परयोः- प्रातः +अत्र= प्रातरत्र ) गीःमुकुन्दस्य = नीमकुन्दस्य ; भ्रातः+व्रजे = भ्रातर्मे जे ; भ्रातः+ गोविन्दं पश्य =भ्रातगोविन्दं पश्य ॥ १४५ ॥ तच्छब्दस्येति च यदुक्तं तत्रापरितुष्यन् सिद्धान्तान्तरमाह स इत्यस्येति । अनियत धमणां नियत धर्मणासह चरितत्वं साहचर्यत्वं तस्मात् एष इत्यनेन साकं स इत्यस्य साहचर्याद्धेतोः इषु इच्छायामित्यस्य एषणमिति वाक्येन एष इत्यस्माद्भाववर्णान्ताद्विष्णुजने विष्णुसग लोष्यो न स्यादि त्यर्थः। ननु स इत्यस्य साहचर्यादिति कथं संगच्छतां यतः सह समान शब्दयोः समासे सरूपत्वं दृश्यते, तथा सो त नुकरणे षोऽन्तकर्मणि इत्यनयो धात्वोरपि कृदन्ते अकर्मण्यारामात् क इत्यनेन क प्रत्ययान्त सरूपत्वं दृश्यते चेति तच्छब्द सम्बन्धि सरामादन्य सरामस्यापि विद्यमानत्वादे तच्चिन्त्यम् । चिन्त्यञ्चात्र प्रकृति सिद्धानुकूलमेव तद्यथा । सहदि शब्दद्वयस्य सभावत्वेऽपि विष्णुसर्गस्याविद्यमानत्वात् धातु द्वयस्य तु स्वरूप त्वस्य विष्णुसर्गस्यापि विद्यमानत्वेपि गौणत्वात् तद्वैपमनंगीकृत्य प्रसिद्ध त्वात् तच्छब्दस्य स इत्यस्यैव साहचर्य मुक्तमित्यवधेयम् ।। १४४। रई। सर्वेश्वर गोपालवत्र पूर्वतोऽनुवर्तते इति वृत्तौ सर्वेश्वर गोपालयोरित्युक्तम् । १४५ । अनी। गीर्वाक् । हे भ्रातः हे भ्रातः व्रजे गोविन्दं पश्यत्यन्वयः ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Harinamamrita_vyakaranam.pdf/९३&oldid=160393" इत्यस्माद् प्रतिप्राप्तम्