अथ विष्णसर्ग-सन्धिः १३१। विष्णुसV जिह्वामूलीयः कवयोर्वा । विष्णुसर्गः क-खयोः परयोजिह्वामूलीयो वा स्यात् ; स च वत्रा- कृतिलेखो जिह्व मूलभवो वर्णविशेषः। अस्य विष्णुजनवत् परोर्ध गामित्वं, लोकात् । एवमुपध्मानीयस्य च। कः कृष्णःक = कृष्णः ; कृष्णः खेलति, कृष्ण = खेलति ॥ १३१ ॥ १३२। प-फयोरुपध्मानीयः । विष्णुसर्गः प-फयोः परयोरुपध्मानीयो वा स्यात्; स च गजकुम्भा कृतिलेख ओष्ठभवो वर्णविशेषः। कृष्णः परमः कृष्ण परम वा, कृष्णः फलम्, कृष्णफलम् वा ॥ १३२॥ १३३ । न शौरि-परेषु तेषु । शौरिपरेषु तेषु क-ख-प-फेष परेषु विष्णसर्गस्थाने जिह्वामूलीया दिन स्यात्- कृष्णः क्षीरस्यति, कृष्णः प्साति ।
११ १२ १ २२ २ २ २ २ २ १ २ २ १ २ २ २ १ २०-२५ ११
अथेति अथानन्तरं विष्णुसर्गसन्धिर्दश्यते । १३१ । विष्णु । लिखनप्रकारमुच्चारणप्रकारञ्च निरूपयति स च इति । वचस्याकृतिरिव लेखो लिखनं यस्येति विग्रहः। जिह्वामूलीय इत्यस्य जिह्वामूलभव इति वाक्यप्रदर्शनम् । विष्णुसर्गभवत्वेन जिह्वा मूलीयस्यापि विष्णुसर्गवत् सर्वेश्वरत्वं विष्णुजनत्वञ्च सम्भवतीति विष्णु- जनत्वमनेन परोर्धगमनं प्रतिपादयति अस्येति । अस्य जिह्वामूलीयस्य लोकादिति लौकिक व्यवहारादित्यर्थः अति दिशति एवमिति । एवं प्रकारेण उपध्मानीयस्य च परोर्धगमनं ज्ञेयम् । १३२। पफ । उप समीपे ध्मायतेऽनेनेत्युपध्मान ओष्ठः तस्मिन् भव उपध्मानीय इति । पूर्ववदस्यापि लिखनप्रकारमुच्चारणप्रकारचाहस चेति, स इति उपध्मानीयः । गजेति-गजो हस्ती तस्य कुम्भयोः शिरसः कुम्भाकारपिण्डयोराकृतिरिव लेखो लिखनं यस्येति विग्रहः । कुम्भौ तु पिण्डौ शिरस इत्यमरः । औष्ठ्य इति भवार्थं नृसिंह यान्तम् ।। -