सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीहरिनामामृतव्याकरणम् [ १मः १२६-१३० , . १२४ । सरामे टनाभ्यां तुग्वेति वक्तव्यम् । षट् + साधवः -षट्त्साधवः भगवान्साधुः=भगवान्- त्साधुः ॥ १२६ ॥ १३० । शौरो ण-डाभ्यां ट-कौ वेति वक्तव्यम् । सुगण्+ शङ्कर-सुगण्टशङ्करः प्राऊ + स्वभूः =प्राङ् स्वभूः प्राऊषष्ठः = प्राक् षष्ठः ॥ १३० ॥ इति बिष्णुजनसन्धिः १२ । सरामे परे सति टनाभ्यामुत्तरे तुग्वा भवतीति वाच्यम् । ननु षटत्साधव इत्यत्र ‘षात्परस्य टवर्गयुक्तस्य च तवर्गस्येति वक्ष्यमाणेन तरामस्य टरामः कथं न स्यात्, सत्यं, यद्यत्र वक्ष्यमाणेन त इति टः स्यात् तदा टरामद्वयरूप ‘विष्णुजने विष्णुजनो वेत्यनेन द्वित्वकृतेऽपि सिद्धं स्यात् । तस्मादत्र सूत्रकरणात् तरामस्यैव स्थितिरिति । नन्वेतदस्तु भगवान्साधुरित्यत्र ‘त-थयोः सरामः’ इत्यनेन नरामस्य विष्णुचक्रपूर्वा विष्णुचापपूर्वो वा सरामः कस्मान्न स्यात् ? उच्यते, किलागमस्य पूर्व- सम्बन्धित्वाद् नरामस्य विष्णुपदान्तस्थितत्वाभावस्तेन विष्णुचक्रादिपूर्वः सरामो न स्यात्, किम्बा ‘नत्से” इति प्रतिषेधेन ।। १३० । शौरौ । शौरों परे नभ्यमत्त यथाक्रमं टकौ वा भवत इति वचनीयम् । सुगणयतीति सुगणिति प्राञ्चतीति प्राडिति च विव तस्य रूपम् । स्वेनैव भूयते इति भावे क्विप् स्वभूविष्णुः । विष्णुजनसन्धिं समापयति इतीति । इत्येवं विष्णुजनसन्धिदंशितः ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Harinamamrita_vyakaranam.pdf/८७&oldid=160384" इत्यस्माद् प्रतिप्राप्तम्