५४ श्रीहरिनामामृतव्याकरणम् [१मः १२४-१२५ ५.A२० - - AAA, AAAAAAAA १२४। हस्तु विष्णुजने च न ।। अह्म ते। ‘विष्णुजने' (स० प्र० १२०) इत्यादौ द्वित्वप्रकरणे ‘सर्वत्र साकल्यस्य' इति अद्वित्वपक्षानुल्लेखस्तस्यां प्रमादः ॥ १२४ ॥ १२५। विष्णुजनाद्विष्णुदासस्यादर्शनं सवगं विष्ण- दासे। विष्णजनात् परस्य विष्णुदासस्यादशन वा स्यात्, सवगं विष्णु- दासे परे भगवाञ्च्छूरःभगवाञ्छूरो वा। अस्य पूर्वत्राकरणं, वकल्पनावश्यकत्वाभावात् ॥ १२५ ॥ इत्यस्मात् मनिप् ब्रह्मति । तत इति द्-धातुरपनयनार्थः। अत्र हरामस्य सर्वेश्वरतः परत्वाभावस्तेन" तत्पर-विष्णुजनो द्विनं स्यात् इत्यवधेयम् । सर्वेश्वरेत्वित्यादि किं किमर्थं सर्वेश्वरेतु हरिगोत्रं द्विर्न स्यात् ? एकेन वाक्येन उदाहरणत्रयमाह-परामर्शीत्यादि । वार्षभानव्या राधायाः परा मशऽर्हति योग्यो भवतीत्यर्थः।। १२४ । हस्तु । ररामात् परो हरामस्तु विष्णुजने च परे द्विर्न स्यात् । सर्वेश्वरे द्विर्न स्यादिति पूर्वेणैवोक्तम् । अद्य ते इति अर्ह-पूजायाम् । मतान्तरं दूषयति-विष्णुिति, ‘विष्णुजने विष्णुजनो वा हरो विना’ इत्यादौ द्वित्वप्रकरणे सर्वत्र साकल्यस्य द्वित्वं स्यादिति या वक्तिः तया सर्वत्र साकल्यस्येति पदद्वयेनाद्वित्वपक्षानुल्लेखोऽद्वित्वपक्षस्योल्लेखाभावः कृत इति तस्यां प्रक्रियाकौमद्यां प्रमादो यतस्तन्मतेऽपि यथायोग्यमद्वित्वपक्षोल्लेखो योग्यः । 'प्रमादोऽनवधानतेत्यमरः । १२५। विष्णु । ननु 'शे-चान्तो वे' ति लक्षणात् परमिदं सूत्रं कस्मान्न कृतम् ? तस्मात् परत्रास्मिन् कृते सति भगवाञ्छूर इत्युदाहरणमपि तत्रैव दातुं शक्यं स्यादिति चेत्तत्राह-अस्येति । इदं सूत्रमुदाहरणञ्च तत्र यदि न कृतं तहि का क्षति ? अस्य विकल्पेनावश्यकत्वाभावात् ।
पृष्ठम्:Harinamamrita vyakaranam.pdf/८५
दिखावट