५२ श्रीहरिनामामृतव्याकरणम् [ १मः ११८-१२० ११८। आङमाङ भ्यां नित्यम् । आङमाहुभ्यां परश्छरामो नित्यं द्विर्भवति ; बरामस्याप्रयोगः आच्छादयति, माच्छिदत् ॥११८॥ ११३ । वामनात् ङ-ण-ना द्विः सर्वेश्वरे । वामनात् परा डणना विष्णुपदान्ताः सर्वेश्वरे परे द्विः स्युः पर्यङ+अनन्तः= पर्यङडनन्तः ; सुगण्+ अनन्तः = सुगण्णनन्तः ; कुर्वन् + अस्ति = कुवन्नस्ति। वामनादन्यत्र तु न–भगवान् + इह = भगवानिह। (उणादि-तिङन्त'-'सनन्तादयस्तु सूत्रनिर्देशवलात्॥११६॥ १२०। विष्णुजने विष्णुजनो वा, ह-रौ विना। वामनात पर विष्णुजनो विष्णुजने परे द्विर्वा स्यात्, ह-ो तु द्विर्न भवतःदध्युपेन्द्रस्य, दद्युपेन्द्रस्य वा ॥ १२० ॥ . ११८ । आङ। आमाडोरपि विष्णपदान्तत्वात विष्णुपदान्ता- दित्यनेन विकल्पे प्राप्ते नित्यतामिदम् । ऽरामस्याप्रयोग इत्यस्मात् परं क्रियायोगे वक्ष्यत इति योज्यम् । माच्छिददिति छिद-धातुचूंधिकरणार्थः ।। ११६ । वाम । विष्णुपदान्तस्था एव ङणना द्विः स्युरिति स्वाभि प्रायव्यक्तार्थ वृत्तौ विष्णुपदान्ता इत्युक्तम् । पयचतीति परि पूर्वोऽन्चु गतौ पूजयाञ्चेत्यस्य क्विबन्तस्य पर्यङिति स्वन्तं रूपम् । सुगणयतीति सुपूर्वो गण–संख्याने इत्यस्य चौरादिकस्य सुगन्नित्यपि तथा ? कुर्वन्निति डुकृञ्जकरण इत्यस्य शत्रन्तस्य रूपम् वामनेति वामनादन्यस्मात त्रिबिक्रमात् परभूता ङणना द्विनं स्युर्वामनोपादानादित्यर्थः । ननु उणादी- त्यादीषु वामनो विद्यत एव । तहि कथं ङणना द्विर्नस्युरित्यत्र समादधाति उणादीति । उणादितिङन्त-सनन्तादयः प्रयोगाः पुनद्विवचनयुक्ता न स्युरि त्यर्थः । अन्यतस्तु न इत्यस्मात् नक्षत्रानुसञ्जनीयम् । द्वित्वाभावं साधकहेतुमाह-सूत्रेति । ‘अनित्यं सूत्रनिर्देशे’ इत्यनेन सूत्रनिर्देश- बलादिति द्रष्टव्यम् । १२०१ विष्णु । सुगमम् । हीत्विति हरामरामाविति ज्ञेयम् ।।
पृष्ठम्:Harinamamrita vyakaranam.pdf/८३
दिखावट