१मः ११५-११७ ] विष्णुजनसन्धिः ५१ ११५। य-व-लेषु सविष्णुचाप-पररूपञ्च मन्यन्ते । संव्वत्सरः, रॉय्यम्यते, सँल्लुनाति ॥११५॥ ११६। द्विः सर्वेश्वरमात्राच्छः । अविष्णुपदान्तादपि सर्वेश्वरात् परश्छरामो द्विर्भवति कृष्ण + छत्रम्=कृष्णच्छत्रम् ॥११६ ११७। विष्णुपदान्तात् त्रिबिक्रमाद्वा । विष्णुपदान्तात् त्रिबिक्रमात् पश्छामो द्विर्वा भवति –यमुना छाया, यमुनाच्छाया वा ॥११७ ‘तथयोः सरामःइत्यनेन विष्णुचक्रादिपूर्वः सरामः कस्मान्न स्यादित्यस्य प्रकारान्तरेण सिद्धान्तं कर्तुमशक्तः सन् निषेधो-वक्तव्यमाह-अत्रेति । विष्णुचक्रस्येत्यनेनात्रविहिते नरामे सति ‘त-थयोः सरामःइत्यनेन प्राप्त- सरामस्य निषेधो वक्तव्यः । अनेन ‘लाक्षणिक-प्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणं' सूचितम् । अतः संसारन्तरतीत्यादौ ‘त-थयोः सरामःइति न प्रवर्तते, सरामस्त-थयोरेव भवति, तथापि त-थयो रति कृतं स्पष्टार्थम् ।। ११५। यव । यवलेषु परेषु विष्णुचक्रस्य स्थान सविष्णुचापं परवणं रूपञ्च भवतीति मन्यन्ते। पूर्वाचार्या इति शेषः । सविष्णुचापयबला भवन्तीत्यर्थः। ”य्यम्यत इति ‘विणुजनायकसर्वेश्वरादित्यनेन यङ, “धातोः द्विर्वचनमधोक्षज-सन्नङ-यअष्वि’त्यनेन द्विरुक्तिः, ‘हरिवेण्वन्तानां जप-जभ दह-दंश-भञ्जावेति-नरारामाद्विष्णुचक्रम् । सँल्लुनातीति संपूर्वो लूङ , छेदने इत्यस्मात् तिप्, 'ऋगादेः शपः श्ना' इति श्ना, प्वादीनां वामनः शिवे' इति वामनः ।। ११६ । द्विः । सूत्रे मात्रशब्दोपादानात् वृत्तावपिशब्द उपन्यस्तः , तेन विष्णुपदान्तादविष्णुपदान्ताच्चेति लभ्यते ।। ११७। विष्णु । अविष्णुपदान्तात् त्रिबिक्रमात्त, पूवणव नित्यं स्यात्, मात्रग्रहणात् । यमुनाच्छायेति छायात्र कान्तिः। ‘छाया-सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः इति नानार्थवर्गः । ।
पृष्ठम्:Harinamamrita vyakaranam.pdf/८२
दिखावट