१मः ६३-१०२ ] विष्णुजनसन्धिः ४५ && । ततः शश्छ वा । विष्णुदासात् परः शरामश्छरामो वा स्यात् सुवाक्शौरिः, सुवाक्छौरिर्वा ; अर्शायी, अप्छायी वा ॥६६॥ १०० । न च्युतेरिति वाच्यम् । वाक्श्च्योतति ॥१००॥ १०१। हो हरिघोषः । विष्णुदासात् परो हरामस्तद्वर्गचतुर्थवर्णं वा स्यात् वाक् + हरेः=वाग्घरेः, वाग्हरेः; अच् हलौ= अज्झलौ, अहल; षट्+ हरेः=, षड्हरेः ; तत् + हलिनः=तद्धलिनः, तद्हलिनः ; । ककुभ् हरस्य=ककुद्भरस्य, ककुव्हरस्य ॥१०१॥ १०२। द-तौ परवणौं ल-च-टवर्गेषु नित्यम् । दरामस्तरामश्च ले परे, चवर्गे टवर्गे च परे, परो यो वर्णः, स एव नित्यं स्यात् तद् + लक्ष्मीपतेः=तल्लक्ष्मीपतेः; तत्+चतु यादवमात्र इति यत् कृतं तत्फलमाह-मात्रेति । उदाहरणन्त्वग्रे इति अग्रे आख्यातादौ तत्तु ‘धत्ते, धत्से’ इत्यादि । && । ततः । पूर्वत्र विष्णुदासस्योक्तत्वात् वृत्तौ तत इत्यस्य वाच्य- भूतं विष्णुदासादित्युक्तम् । सुवाक्-सुवचनः । अप्शायी-जलशायी । । १०० । नदच्यु। विष्णुदासात् परश्च्युतेः शरामश्छरामो न स्यादिति वक्तव्यम् । श्च्युतधातुः क्षरणार्थः । श्च्योततीत्यत्र ‘सस्य शश्चवर्गयोगे' इत्यनेन सरामस्य शरामप्राप्तौ प्रतिषेधोऽयम् ।। १०१ । हो। विष्णूिति यद्वगं विष्णुदासात् परो हस्तद्वर्गस्यैव चतुर्थी वण । वाग्घरे इत्यादौ हरिघोषे कृते पश्चात् ‘विष्णुदास ' वा स्यात्। इत्यनेन करामादेर्गरामादिः । हलिनो वलदेवस्य ।। १०२। दतौ। छादयतीति छदधातुरपवारणार्थः। यादवेति ‘यादव- मात्रे हरिकमलमित्यनेन छरामस्य चराम इति शेषः । अङ्गार इति शब्दविशेषः । विष्णूिति ‘विष्णुदासो विष्णुपदान्तेइत्यनेन झरामस्य
पृष्ठम्:Harinamamrita vyakaranam.pdf/७६
दिखावट