१मः ७१-७३] सन्धिप्रकरणम् ७१। ईदूदेतां द्विवचनस्य मणीवादिवर्जम् । द्विवचनस्थानीयानाम् ई-ऊ एरामाणां सम्बन्धे सर्वेश्वरे परे सन्धि र्न भवति । हरी अत्र ; विष्णू अत्र ; अमू अत्र ; गङ्ग अत्र ; भजेते अजितम् ; अमुके अत्र स्तः। चान्द्रास्त्वत्र सन्धिमिच्छन्ति ‘अमुकेऽत्र स्तः । मणीवादौ तु सन्धिर्भवत्येव, विकल्प इत्येके— मणी+इव=मणीव ; एवं दम्पती+ इव=दम्पतीव ; रोदसी+ इव = रोदसीव ; जम्पती+इव-जम्पतीव ॥७१॥ ७२। अदसोऽमीत्यस्य।। ‘अदस्-शब्दसम्बन्धिनः ‘अमी’ इत्यस्य पदस्य सर्वेश्वरे परे सन्धिर्न भवति-अमी अच्युतप्रिया। ‘अमी’ इति किम् ? अमुकेऽत्र स्युः। ओरामान्ताद्या असन्धयः पाणिनीयानां (पा ११११ ) ‘प्रगृह्य संज्ञाः ॥७२॥ १२ २ २ १ !===============------- ७३ । महापुरुषस्य च। महापुरुषस्य च सम्बन्ध सर्वेश्वरे परे सन्धिनं भवति ॥७३॥ ७१। ईदू । द्विवचनस्थानीयानां द्विवचनरूपयानिसम्बन्धिन द्विवचनसम्बन्धिनामित्यर्थः । हरी अत्रेत्यादावुदाहरणे इद्वयमेव यः सर्वेश्वरे’ इत्यादिना सूत्रेण यरामादिप्राप्ते निषेधोऽयम् । अजितं श्रीकृष्ण मित्यर्थः । अत्र विषये चान्द्रास्तु सन्धिमिच्छन्त्येव । विकल्प इत्येक इत्येके क्रमदीश्वरादयः । मणिवादिर्गणो यथा -‘मणी भार्यापती चैव दम्पती रोदसी तथा । वाससी जम्पतीचैवमिव जायापती तथा ।।' ७२ । अदस । अदस इत्युपादानात् अम रोगे इत्यस्य धातोः कृत्प्रत्य यान्तस्य अम इत्यस्मात् तद्धितेऽणिप्रत्यये कृते यदमीति भवति तस्य सन्धिः र्भवत्येव । तथा अमा कला चन्द्रो विद्यतेऽस्य अमी चन्द्र इत्यस्यापि सन्धिः। असन्धय इति असन्धिनामान इत्यर्थः । पाणिनीयानां पण्डितानां मते ओरामान्ताद्या असन्धिनामानः प्रगृह्यसंज्ञा भवन्ति । ७३ । महा । सुगमम् ।
पृष्ठम्:Harinamamrita vyakaranam.pdf/६४
दिखावट