सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ श्रीहरिनामामृतव्याकरणम् [१मः ७०-० अरामादयः सम्वोधनादौ। तत्र सम्वोधने ’अ अनन्त' ; स्मरणे आ एवमच्युतलीला’ ; भत् सने–इ अच्युतं न भजसि' ; वाक्पूरणे ‘ई ईदृशः संसारः; आमन्त्रणे- – ‘ड अच्युत'; प्रतिषेधे- ‘ड डपसन्नं मां त्यजसि'। आङस्तु सन्धिर्भवत्येव आ+ अनन्तम्= आनन्तम्, अनन्तमर्यादां कृत्वथैः। ईषदर्थं क्रियायोगे व्याप्ति-मर्यादयोश्च यः । एतमात ङित विद्यावाक्यस्मरणयोरडित ” इति ॥७०॥ वस्तुषु' इति नानार्थवर्गः । आरामादयः सम्वोधनादौ वर्तन्ते, तेषां सन्धि- निषेधेन रूपाणि दश्यन्ते इति शेषः । अत्र सम्वोधने यथेति शेषः । एवं स्मरण इत्यादावपि । अ अनन्तेति हे अनन्तेत्यर्थः। स्मरणं चिन्तनं तस्मिन् यथा—आ एवेति एवमुक्तप्रकारेण अच्युतलीला आ स्मरणीया इत्यर्थः। भर्त सने तिरस्कारे रूप यथा-इ अच्युतेति । भो अवैष्णव अच्युतं न भजसि इ त्वां धिगित्यर्थः । वाक्पूरणं वाक्पोषणं तस्मिन्नर्थे रूपं यथा ई ईदृश इति । हे भ्रातरीदृशः संसारःई एतादृशो भवितु मर्हतीत्यर्थः। आमन्त्रणं सम्वोधनं कामाचारकरणमिति यावत् तस्मिन् यथा -उ अच्यतेति । अच्युत उ भोः स्वाभिप्रेतश्चेन्मामुद्धर । प्रतिषेधे निषेधे रूपं यथा -उ उपसन्नमिति । तवानगतं मां त्यजसि उ मात्यज । सर्वेश्वरे परे इति किम् ? एहि+ अ = एह्य, अत्र + इ = अत्रे, प्र+ उ = प्रो। पूर्वसर्वेश्वरत्वादित्यादौ वृत्तौ केवलानामित्यपादानात प्रैतीत्यादौ च सन्धिर्भवत्येव । आङः। ङित् आरामस्य अव्ययस्य सन्धिर्भवत्येव । आङोऽपि केवलानन्ताव्ययत्वात् सन्धिनिषेधो भवितुमर्हति, सतु आचार्यानां सम्मत इति नियमसूत्रमेतत् कृतम् । सानवन्ध-निरनवन्धयोरारामयोरौदार्थ सिद्धान्तकारिकामाह ईषदिति । ईषदर्थे इति ईषदर्थे अल्पार्थे—आ श्यामः । क्रियायोगे-आगच्छेति । व्याप्तौ-आ वैकुण्ठं संसारः । • मर्यादायाम्-—आ वैकुण्ठं व्यासकी त्तिः । वाक्ये—आ एवं किलैतत् । स्मरणे आ एवमच्युतलीलेति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Harinamamrita_vyakaranam.pdf/६३&oldid=160351" इत्यस्माद् प्रतिप्राप्तम्