सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/५९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६२ श्रीहरिनामामृतव्याकरणम् [ शमः १२८२ ==AAAAAAAAAAAAAAAAAAAAAAAAAAA विकल्पिते (१२५८) इत्यस्यानित्यत्वे ज्ञापकम्, तेन धावु गति शुद्धोः धावितः, धावितवान् ; शुद्धौ तु -धौतः, धौतवान् । पत्रौ पतितःपतितवान् । मनु मनितः, मनितवान् । अनेक सर्वेश्वरत्वादिसंज्ञपितः, दरिद्रतः इत्यादि ॥१२८२॥ । स्त्रिषु लिङ्गषु वर्तते, वाच्यलिङ्गस्वात् । विधवा स्त्रियामपि वर्तते तदा स्त्री स्त्रीलिङ्गः विश्वस्तेति । वान्त इति ट वग्-उगिरणे, रिवेण्वन्तोद्धवस्य त्रिविक्रमः क्वौ कंसारिवैष्णवे चेति उद्धवस्य त्रिविक्रमः मस्य विष्णुचक्र विष्णुचक्रस्य हरिवेणुः । गूढ़ इति गृह- सम्बरण । 'स्वरति-सूति-सूयति-धूनूदित इड़वेति विकल्पेट्त्वमतो विष्णुनिष्ठायामिड़भावः । हस्य ढः, तस्य धः , धस्य ढः, ढस्य हर , पूर्वस्य त्रिविक्रमश्च । वन्विति वनु-याचने; उदित इत्यत्र उरामेत इति ज्ञेयम् । हरिवेणुन्तेति अनेन हरिवेणुहरः । तत इति तनु- विस्तारे पूर्ववत् । नन यदि विकल्पितेटो विष्णुनिष्ठायामिड़ न भवति, तर्हि कथ ' धावितः, धावितवान्, पतितः पतितवान् इत्यादि भवत्विति चेत्तत्राह -नतीकृत्यादेरिति ; ‘नूनीकृत्यादेरि ड् वा से सिं विना' इति विकल्पितेत्वम्, अतो नृती-गात्रविक्षेपे, कुती-छेदने इत्यादेविष्णुनिष्ठायामिड् निषेधः सिद्ध एव, अत ईरामेत्वमनर्थकम् अतोऽनित्यज्ञापकमिति । धौत इति छस्य श इत्यादिना वस्य ऊ अद्वया दुटो वृष्णीन्द्रः शुद्धौ तु इङ् निषेध एवेति भावः । पतलू इति-पतलू गतौ पतित इति; इंवत-ऋध-भ्रस्जदन् भू-श्वि-ऊर्ध्यौति-भरति-ज्ञपि सनितन-पति-दरिद्राभ्य इड वा सनीति विकल्पितेत्वं तथापि अनित्यत्वादिट्। मन्विति मन-बोधने, उरामेवाद्विकल्पितेटत्वम् । अनेकसर्वेश्वरादि ड्रिति अनित्यत्वादेवेति शेषः । अनेकसर्वेश्वरत्वादिति पाठः क्वचिद्दृश्यते सत्वसभ्यः अनित्यत्वस्यैव हेतुत्वात् । संज्ञपित इति ण्यन्ताज्ज्ञ पेः क्त इंट णेर्हरः इवन्तेत्यादिना विकल्पेट्त्वम् । दरिद्रित इति दरिद्रा-दुर्गतौ दरिद्रतेरारामहर' इत्यादिना आरामह्रः अत्रापि इवन्तेत्यादिना विकल्पेत्वम् ।।