सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/५८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५६ श्रीहरिनामामृतव्याकरणम् [ ५मः १२६८-७१ १२६८ । निवण्णो निविद्यते । कृतमूर्धन्यो निपात्यते ॥ १२६८ ॥ १२६६ । सिनः कर्मकर्तरि बन्धे ग्रासे । सित बन्धने ; सिनो ग्रासः स्वयमेव ॥ १२६ ॥ १२७० । शुषो विष्णुनिष्ठा-तस्य कः, पचो व, यो मः । शुष्कः, पक्वः । के क्षये- क्षामः ॥ १२७० ॥ १२७१ । प्रस्तीमादयः प्रपूर्वस्य स्त्यायो निपात्यन्ते । १२६७ । निर्वो । निर्वो निर्वाणो निपात्यते, वाते वाच्ये तु न; वाते वाच्ये विष्णुनिष्ठा-तस्य नो न भवतीत्यर्थः । निर्वाणो मुनिरिति मुक्तो वभूवेत्यर्थः। ‘निर्वाणो मुनिवहश्रादौ निर्वातस्तु गतेऽनिल' इत्यमरः । अनभिधानात् क्तवतौ न भवतीति ज्ञेयम् । मुक्तिवाचकस्तु निर्वाणशब्दो अनप्रत्ययान्तो ब्रह्म । ‘मुक्तिः कैवल्यनिर्वाणमि’त्यमरः ।। १२६८ । निव । निर उत्तरस्य विवद-सत्तायामित्यस्य कृतमूर्धन्यो निपात्यते कृतमूर्धन्य इति कृतणत्व इत्यर्थः । विष्णुनिष्ठातस्य दस्य च नः सिध्यत्येव किन्तु णत्वमेव निपात्यते इत्यर्थः । १२६६ । सिनः बन्धे ग्रासे कर्मकर्तरि सति सिनो निपात्यते । अत्र सिद्ध-बन्धने इत्यस्यैव ग्रहणमिति सूचयितुं बन्ध इत्युक्तम् । सिन इति निपातात् विष्णुष्ठिातस्य नः बद्ध इत्यर्थः । ग्रास इति किम् ? सितो वृषभः स्वयमेव । कर्मकर्तरिति किम् ? सितो वैष्णवेन ग्रासः ।। १२७० । शुषो । स्तुष-शोषण इत्यस्य विष्णुनिष्ठा-तस्य स्थाने को भवति । पचो डु पचष-पाक इत्यस्य विष्णु निष्ठातस्य स्थाने वो भवति । क्षायः क्षुधातोविष्णुनिष्ठा-तस्य स्थाने मो भवति । शुष्क इति सहजानिट्त्वान्न ८ । क्षामः कृशः । ।