सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/५८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५मः १२६६-६७ ] कृदन्तप्रकरण विष्णुनिष्ठा ५५५ १२६६ । फुल्लोत्फुल्लसंफुल्लक्षीबकृषोल्लाघाः जिफलादीनामेते निपाताः । प्रकरणाद्विष्णुनिष्ठोपलक्षणमिदं, तेन यथासम्भवं क्तवतावपि फुल्लः फुल्लवान् । श्रीबृ- क्षीबः क्षीबवान् । कृशे – कृशः, कुशवान् । लावूङ सामथक उल्लाघः उल्लाघवान्। नान्योपेन्द्रात् प्रफुल्तः इत्यादि। कथं ‘प्रफुल्ल पुण्डरीकाक्ष याः पश्यन्ति हरेमुखम्’ इति ? पश्चात् समासेन ॥१२६६॥ १२६७ निजं निर्वाणो, न तु वाते । वा गतिगन्धनयोः। निर्वाणो वह्निर्न निर्वा। वाते तु-निर्वातो वातः ॥ १२६७ ॥ स्थाने ते परे उर्भवति, चरधातोरुदाहरणमग्रे वक्ष्यते । प्रफलत इत्यारामानुबन्धान्नेट् फलितेति बालकल्कि-ता इट् अत्रेटा व्यवधानात् न तरामस्य परत ।। १२६६ । फुल्लोत् । वृत्तिाह बिफलादिनामेते निपाता इति । ननु यदि फुल्लादयो निपात्यन्ते तहि कथं फुल्लवानित्यादि न भवत्विति चेत्तत्राहप्रकरणादिति । विष्णुनिष्ठायाः प्रकरणात इदं सूत्रं विष्णुनिष्ठोपलक्षणं विष्णुनिष्ठाग्राहकमित्यर्थः । तेन हेतुना यथासम्भवं सम्भवानतिकमेण क्तवतावपि ज्ञेयमिति शेषः । फुल्ल इति निपातात् । जि फलः फुल् विष्णु निष्ठातस्य नश्च । क्षीब इति क्षीब-पदे. क्षीब इति निपातात् तरामस्यरामः मत्तः इत्यर्थः । क्षिबवानिति क्षिबितबान् इत्येके । कृश इति कृश-तनुकरणे निपातात् तरामस्यारामः तनुरित्यर्थः । उल्लाघ इति व्याधिनिर्मत इत्यर्थः। ‘उल्लाखो निर्गतो गदादित्यमरः । नान्योपेन्द्रादिति । उत्फुरलसं कुलयोः पृथक् पाठादुल्लाधेति सोपेन्द्रनिदंशाच्चेति शेषः । इत्यादीत्यादिपदेन संलाघित इत्यादि ज्ञेयम् । कथमिति प्रफुल्लपुण्डरीकाक्षमिति मुख्यमित्यस्य विशेषणं पुण्डरीकं शुक्लपद्यम् । सिद्धान्तमाह पश्चादिति । प्रकृष्ठं फुल्लं प्रफुल्लमिति कु-प्रादयो मध्यपदलोपश्च । ततश्च प्रफुल्ले पुण्डरी के अक्षिणी यत्रेति पीताम्बरसमासः कर्तव्यः ।