४थं १०५०-१०५१] कारक-प्रकरणे करणम् ४५५ हे विष्णोर्बहिर्मुखैस्तत्प्रसादं संप्रयच्छते, तेभ्यो ददातीत्यर्थः। कथं पशु रुद्राय ददातीत्यर्थं पशुना रुद्र यजते ? पशुन देयेन द्ध प्रीणयतीति सोपानं कर्तव्यम् ॥ १०५० ॥ अथ करणम १०५१। कर्तुरधीनं प्रकृष्टं सहायं करणम्, अनुक्ते कर्तरि करणे च तृतीया । कृष्णो गा वनाद् यमुनातीरे वंशीवाद्येन आढ्यते, हस्तेनोत्तरीयं गम्ये संपूर्वस्य यच्छतेः प्रयोगे सम्प्रदाने तृतीया भवति । अशिष्टः मूर्धः । तत्प्रसादं विष्णुप्रसादम् । बहिर्म खेभ्यो विष्णुप्रसाददानम् अशिष्टव्यव- हारः। संप्रयच्छत इति, दाण-दाने । 'दाणः सा चेच्चतुर्थं’ इत्यनेन आत्मपदम् । संयच्छते स्म गोप्येष्टंश्रीशः संयच्छते श्रियै इति कस्यचिदु दाहरणम् । अत्र श्रीशस्य गोपी गोपी ' प्रत्यभिष्टदानम् अशिष्टव्यवहारः श्रियं प्रति न । कथमिति । यजधातोर्दानार्थत्वात् पशू रुद्राय यजते इति भवितुमर्हतीत्ययमत्र विरोधः । सिद्धान्तमाह-पशुनेति, देयेन पशुनेत्यर्थः। देयेनेत्यर्थलब्धम् । सोपानमिति, सिद्धान्तस्येति शेषः । ‘आरोहणं स्यात् सोपानमित्यमरः' । पशना रुद्रं प्रीणयतीत्यस्यापि पशं रुद्राय ददातीत्येव फलितार्थःअतएव पशू रुद्राय ददातीत्यर्थ इत्युक्तम्, अन्यथा तद्विरुद्धं स्यादिति ज्ञेयम् । प्राचीनैरप्येतत्प्रकारान्तरेणोक्तम् । तद्यथा, यजतेः कर्म करणं सम्प्रदानस्य च कर्म । यजतेः कर्मसम्प्रदानयो- गपत करणकर्मणी ।। १०५१ । कर्तुं । कर्तुरधीनमायत्तम् । तथाच-क्रियासाधने प्रकृष्टं सहायं यत् कारकं तत् करणसंज्ञा स्यात् । ननु कर्तुः सहायं करण मत्यवार लक्षणमतेन सूत्रेण सर्वत्र प्रयोगसिद्धिः स्यात्, प्रकृष्टस्य कि प्रयोजनम् ?, सत्यम । यदा एतद् ब्रवीषि तदा हस्तपादादिकानान्तु चालनरूपेण सहायत्वं कि विद्यते ? अतो हेतोः प्रकृष्टमित्युक्तम् । अधीन मिति किम् ? अधीनमित्युक्तं कृष्णेन सुखं लभते लोक इत्यत्र कृष्णस्य
पृष्ठम्:Harinamamrita vyakaranam.pdf/४८६
दिखावट