४णैः १०३६-१०४० ] कारक-प्रकरणे सम्प्रदानम् ४४६ १०४०। सम्प्रदाने चतुर्थी। वैष्णवः कृष्णाय सर्वस्वं ददाति; श्रीकृष्णश्चानूराय प्रहारमदात् ; कंसाय भयमदात् । प्रदेयत्वं विना तु न रजकस्य वस्त्र ददाति ; हन्तुः पृष्ठ ददाति ॥ १०४० ॥ त्यागपूर्वकमिच्छया यद्दीयते, तदात्यन्तिकदेयमिति । तेनेति, तेन आत्य- न्तिकदेयेन यत् करकमभिसंवध्यते, अभि सर्वतोभावेन सम्बन्धविषयी क्रियते इत्यस्यार्थं स्पष्टयति-यद्देयतया सम्पाद्यते इति । तत् आत्यन्ति = देयं यद्देयतया यत्सम्बन्धितया सम्पाद्यते सम्पनीक्रियते, तत् कारकं सम्प्र दानसंशं स्यादित्यर्थः । १०४० । सम्प्र । सम्प्रदाने चतुर्थी विष्णुभक्तिः स्यात् । ददातीति, इंदाज-दाने जुहोत्यादिः। अदादिति भूतेशे, देयेत्यकृत्वा यत् प्रदेयेति कृतं तत्प्रयोजनमाह -प्रदेयत्वं विन त्विति । रजकस्य वस्त्रं ददातीत्यत्र वस्त्रस्य देयत्वमस्त्येव, किन्तु प्रदेयत्वं नास्ति, पुनर्हणात् । हन्तुः पृष्ठं ददातीत्यत्र पृष्ठस्य देयत्वमस्तेव, किन्तु प्रदेयत्वं नास्ति इच्छाया अभावात । हन्तुर्हननकर्तुः । एवं राज्ञो दण्डं ददातीति । कलापाः सूत्रं न बहुमन्यन्ते, तेतु व्युत्पत्तिलभ्यत्वात् सर्वं साधयन्ति । तद्यथा सम्यक्प्रकर्षेण दीयते यस्मै तत् सम्प्रदानमिति । ‘अनमन्त्रनिराकर्ते प्रेरकं त्यागकारणम् । व्याप्तेनाप्त ददातेस्तु सम्प्रदानं प्रकीfततम् ।। सम्प्रदानं तदेव स्यात् पूजानुग्रहकाम्यया । दीयमानेन संयोगात् स्वामित्वं लभते यदि । अनुमन्तु यथा--गुरवे गां ददाति । गुरुस्तु प्राथतः सन्न नुमन्यते । अनिराकर्तुः यथा-कृष्णायार्घ ददाति, कृष्णो हि अघथं न प्रेरयति, नानुमन्यते च, केवलं दीयमानं वस्तु न निराकरोति । प्रेरक यथा –ब्राह्मणाय वस्त्रं ददाति, भो राजन् ! मह्य वस्त्रं देहीति राजानं प्रेरयति, ततो राजा वस्त्रं ददातीत्यर्थः । राज्ञा दण्डं ददाति, अत्र पुजा नुग्रहकाम्या नास्ति । पूजा यथा कृष्णाय धूपं ददाति । अनुग्रहो यथा भृत्याय वस्त्रं ददाति । काम्या यथा-दास्यै मालां ददाति । ‘स्व-स्वत्वे विद्यमाने हि परस्वत्वं न विद्यते । परित्याज्यं प्रदानञ्चेदौदासीन्यान्न
पृष्ठम्:Harinamamrita vyakaranam.pdf/४८०
दिखावट