४१८ श्रीहरिनामामृतव्याकरणम् [४थः ९८७ --- - --
-- - - - -- - --
रहितः। तद्वजते इति किम् ? अध्वानं गच्छति, पन्थानं वा, आक्रम्य यातीत्यर्थः ; इहैव प्रतिषेधः । इह तु स्यात् -उत्पथेन पथे गच्छति। चेष्टायां किम् ? मनसा कृष्णं गच्छति । अर्थग्रहणं किम् ? प्रेयसी' गच्छति हरिरुपभुङ्क्त इत्यर्थः। अथ कृत्प्रयोगाः। ते च तत्र स्युर्यत्र क्रियान्तराकाङ्क्षाः क्रिया। आख्यातप्रयोगास्तु निराकाङ्क्षाःअतः कर्तृत्वादिसाधनत्वे तुल्येऽप्यु- क्तम्--‘क्रियाप्रधानमाख्यातं, साधनप्रधानं कृत्' इति ॥ ६८७ ॥ षष्ठेयेवेति भागवृत्तिरिति उक्तम। व्रजस्य गन्तेत्युदाहृतञ्च । तस्मादत्र एकतरस्य भ्रमो विवेचनीयः । वास्तवविचारेण ग्रन्थकारयोर्मध्ये एकस्यापि न भ्रमः, किन्तु क्रमदीश्वरग्रन्थस्य जलनिमग्नत्वेन लिषिकरं न बोह्र शक्यमिति । अत्र भाषावृत्तिरिति क्रमदोश्वरेणोक्तमित्येव शुद्धम् । अध्वेति, अर्थपर इति । अध्वपययग्राहक इत्यर्थः । स चेति । स च अध्वशब्दोऽध्वान्तरापेक्षारहित इति, गृह्यत इति शेषः । स चाध्वशब्दः अध्वान्तरापेक्षारहितश्चेत्तदा चतुर्थं न भवति, अपेक्षायान्तु भवत्येव । तद्वजिते अध्वजते । आक्रम्येति, अध्वानं पन्थानञ्चेति शेषः । यातीति, व्रजादिकमिति शेषः । अतोऽत्राध्वनो न गम्यतेति। इहैव प्रतिशेध इति । अध्वान्तरापेक्षारहितत्वात् इह तु स्यादिति अध्वान्तरसपेक्षत्वात् । उत्पथेन कुत्सिताध्वना । पथे इति, पथि त् शब्दात् चतुर्थी थे । अत्र व्रजादिवत् पन्था एव गम्यः, अतोऽध्वान्तरापेक्षा अतश्चतुर्थीति । मनसेति । गच्छतीति , प्राप्नोतीत्यर्थः । प्रेयसमिति नात्र गमिगेत्यर्थः । किन्तु धातूनामनेकार्थत्वात् उपभोगार्थः । गौण गत्यर्थस्याग्रहणात् कुञ्जं प्रविशति, गोवर्धनशिखरमारोहतीत्यादौ च न चतुर्थीत्येके । अथेति । कृत्प्रयोगा इति कृदन्तप्रयोगा इत्यर्थः । कृत प्रयोगा इति विग्रहः। ते च क्रियाय अन्तरं भिन्न क्रियान्तरं, क्रियान्तरस्य आकांक्षा यासु तः क्रियान्तराकांक्षाःक्रिया यत्र क्रियान्तराकांक्षाः क्रिया भवन्ति, तत्रस्थले ते च प्रसिद्धः कृत्प्रत्ययाः स्युरिति कृत्प्रयोगाः साकांक्षा