सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४र्थः ६७६ ] कारक-प्रकरणे कर्तृकर्मणी ३९६ श्रावयति । युद्ध वशीकुर्वन् दैत्यानतिक्रामयति । प्राणान् गृहृन् दत्यान् पीडयति । वरं वाञ्छन् गोवर्धनं स्वस्मै तद्दाने प्रेरयति । नवनीत मुत्थापयन् दधि सञ्चालयति । नर्म प्रतिपादयन् सखीः श्रावयति । इत्यादिरर्थो ज्ञेयः। भिक्षिरर्थपरस्तेन प्रार्थयत इत्यपि ; याचिस्त्व विनयार्थोऽपि; तेन, दुष्ट शतं याचते राजा । अत्र ब्रुविशासि-वदीनाञ्च प्रतिपाद्यमानं मखादिकमेवेप्सिततमं, तत्प्रतिपादनेन सम्पाद्यमानं पित्रादिकं त्वीप्सितमिति ज्ञेयम् । तदर्थानामपि दृश्यते -"जगाद, मारीचमुच्चैर्वचनं महार्थम्” इति भट्टिः (२३२); "गिरामत्युदारां, हुं पायनेनाभिदधे नरेन्द्रः” इति भारविः (२।१०) । किञ्च कर्म प्रत्यये तु दुहादेगौंणं कर्मोक्त स्यान्नीबहादेस्तु मुख्यम्। यदुक्तम् कवर्तमानभिक्षाक्रियानुकूलव्यापारवान् श्रीदामा । वृन्दावनमिति । पुष्पा याददानः वृन्दावनमवशेषयतीत्यर्थः । अवशेषणवृत्तिसाध्येप्सित-वृन्दा- वनकर्मकादानवृत्ति-साध्येप्सिततम-पुष्पकर्मक-वर्तमान-चयन-क्रियानुकूल व्यापारवान् कृष्णः । पितरमिति गोवर्धनमखं प्रतिपादयन् पितरं श्रावयः तीत्यर्थः। श्रावणवृत्तिसाध्येप्सितपितृकर्मकप्रतिपादनवृत्तिसाध्येप्सिततमः गोवर्धनमखकर्मकवर्तमानवचनक्रियानुकूलव्यापारवान् कृष्णः । लोकानिति तद्भक्तिं गोवर्धनभक्तिं प्रतिपादयन् लोकान श्रावयतीत्यर्थः। श्रावणवृत्ति- साध्येप्सितलोककर्मक-प्रतिपादनवृत्ति-साध्येप्सिततम-गोवर्धन-भक्तिकर्मक- वर्तमानशासनक्रियानुकूलव्यापारवान् कृष्णः । दैत्यानिति युद्धं वशीकुर्वन् दैत्यानतिक्रमयतीत्यर्थः। अतिक्रमवृत्तिसाध्येप्सित-दैत्यकर्मक-वशीकरण- वृत्तिसाध्येप्सिततमयुद्धकर्मकवर्तमान-जयक्रियानुकूलव्यापारवान् कृष्णः । दैत्यानिति प्राणान् गृहृन् दैत्यान् निगृह्यतीत्यर्थः। निग्रहवृत्तिसाध्ये प्सित-दैत्यकर्मक-ग्रहणवृत्ति-साध्येप्सिततम-प्राणकर्मकवर्तमानदण्डनक्रियानु कूलव्यापारवान् कृष्णः । गोवर्धनमिति । वरं वाञ्छन् गोवर्धनं स्वस्मै तद्दाने प्रेरयतीत्यर्थः। स्वदानप्रेरणवृत्तिसाध्येप्सित-गोवर्धनकर्मकवाञ्छा वृत्ति - साध्येप्सिततम-बरकर्मक - वर्तमान-वरणक्रियानुकूल - व्यापारवान् कृष्णः । दधीति । नवनीतमुत्थापयन्ती दधि सञ्चालयतीत्यर्थः।