सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४र्थः ६७६] कारक-प्रकरणे कर्तृकर्मणी ३६५ निष्पादने वर्तते, ततश्च निष्पाद्यमानां मालां वैष्णवो निष्पादयतीत्यर्थः । यदा तु अत्यन्तसुकरत्वेन वैष्णवव्यापाराविवक्षायां करोतिनिष्पत्तिमत्र वर्तते, तदा कर्मणो मालाया एव कर्तुत्वात्, क्रियते माता स्वयमेव इति यदर तस्मान्निष्पत्तिमात्र निवृत्तेः करोतेः प्रेरणे णिरुत्पद्यते कारयति मलां वैणवःनिष्पद्यमानां मालां वैष्णवो निष्पादयतीत्यर्थः । तदा मालां करोति वैष्णव इत्यनेन हास्य समानार्थता स्यात्, पूर्ववदत्यन्तसुकरत्वेन वैष्णवव्यापारेऽविवक्षिते स्यन्तमपि निष्पत्तिमात्रे वर्तते, कारयते माला स्वयमेवेति अस्य प्रयोगस्य त्रियते माला स्वयमेव इत्यनेन सह समानार्थ तेति। यद्वा, विष्णुमित्रादिकः कर्मकर्ता ऊह्यः । ‘कुजहृदेवभाषये त्यनेन अनिककर्तुविकल्पेन कर्मत्वं वक्ष्यते । ततश्च वैष्णवो विष्णुमित्रं मालां कारयति, तत्र प्रेरणे–प्रेरयति स विष्णुमित्रः स्वयमेव मालां कारयते, स्वयमेव मालाकरणे प्रेरितो भवतीत्यर्थः । इत्यादीति । एवं श्रन्थादीनामप्युदाहरणानि ज्ञेयानि इति भावः । तच्चेति प्रसिद्धं पूर्वोक्तं ‘क्रिया यत् साधिके त्यादिना उक्तम् । आप्तुमिष्टं ईप्सितं तस्मादतिशयार्थं तमः प्रत्ययः, न ईप्सितं अनीप्सितं कर्मणस्त्रैविध्यम्बत्वा पाणियुक्तमुदाहरति । यथेति भगवानिति सर्वज्ञ इत्यर्थः । कर्तरिति । कर्तुरनीप्सितञ्च तथा कर्मत्वेन यवतं क्रिया साध्यत्वात तदपि कमैयर्थः। अकथितञ्च कर्मेति अत्र कर्तरिति न योज्यं अर्थासङ्गतेः । प्रथममीप्सिततमं मालां करोतीत्यर्थमेव क्रियारम्भात् मालाकर्तुरीप्सिततमेति । मध्यममनीप्सितं वेष्यं दूषविषयीभूतम् । पापं करोतीति नात्र पापार्थं क्रियारम्भः किन्तु अनवधानतया द्रुष्यमपि पापं करोतीत्यर्थः। अनपेक्षी अपेक्षाशून्यम् । मथुरां गच्छन् देशान् पश्यतीति नात्र देशाद्वेष्या वेषातृत्वाभावात् । नापीप्सिततमाः । मथुराया ईप्सित- तमत्वेन देशदर्शनक्रियायाः आनुषङ्गिकत्वात् । ईप्सिततमाया मथुराया उपयोगित्वेऽपि न चेप्सिताः । एकस्यामेव क्रियायामीप्सिततमेप्सितयो र्वक्ष्यमाणत्वात् अतोऽनपेक्ष्याः । तथेति । ईप्सिततमस्य उपयोगि अनुकूलं यत् तदीप्सितमिति पाणिन्युक्तस्याकथितस्य लक्षणमाह-अकथितत्वमिति । अपादानादित्वेन पूर्वोक्तकर्मद्वयेन च अविवक्षितम् अकथितमित्यर्थः। आदिपदेन अधिकरणादेषंहणम् । कर्मद्वयमीप्सिततममनीप्सितरूपम् । ४