सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६२ श्रीहरिनामामृतव्याकरणम् [ ४र्थः ७४-७७ ३७५ । कुषिरञ्जिभ्यां यः कर्मकर्तरि, कृष्णधातुके परपदन्तु वा। कुष्यति कुष्यते वा नन्दकः , स्वयमेव रज्यति रज्यते वा वंशी ॥ ६५ ॥ ६७६। सर्वेश्वरादिण्वा कर्मकर्तरि, दुहश्च । अकारि, अकृत : अदोहि, अदुग्ध॥ ७६ ॥ ६७७ । न रुध इण् । अरूद्ध ॥ ७७ ॥ उच्यते । यथा तपःकर्मकस्य ग्रहणेन अन्यकर्मकस्य कर्मबन्न भवति, तथा अर्जयतीति कथनेन उपार्जनार्थस्य तपेषंहणं नान्यार्थस्य इत्यर्थः । अन्यत्र तपः करोतीति यथायोग्यं वक्तव्यमिति । ३७५ । कृषि । कर्मकर्तरि वाच्ये कृष्णधातुके परे कुष-निष्कर्षे, रञ्ज-- रागे इत्येताभ्यामुत्तरे देयः स्यात्, परपदं तु वा। श इत् । निष्कर्षों-निष्कासनम् । नन्दकः-कृष्णखङ्गः । रज्यतीति, वंशीत्यनन्तरं स्वयमेवेति ज्ञेयम् । कृष्णधातुके इति किं, चुक्षुषे नन्दकः स्वयमेव । अत्र नित्यमेवात्मपदम् । ननु कुषिरञ्ज्योः कर्मकर्तरि कृष्णधातुके पर- पदं वेत्येवास्तु किमनेन 'श्य विधानेन, कर्मवत् कार्यं यक् भवत्येव । उच्यते । परपदमेव वा भवति, नतु यक् भवतीति शङ्का स्यात् । यत् भावकर्मणो र्भवति । भावकर्मणोस्तु आत्मपदस्यैव विधानात् यक: आत्मपदविषयत्वात् तत्र तु परपदस्यापि विधीयमानत्वात् यगित्यकृत्वा श्य इति कृतमिति ज्ञेयम् । श्यस्य आख्यातोक्त-श्यस्यानुवादरूपत्वेन कृष्णधातुकत्वाद्गोविन्दा भावः प्रयोजनभावे शिदनुबन्धत्वम् । ६७६ । सर्वे सर्वेश्वरशब्देन सर्वेश्वरान्तो गृह्यते, कर्मकर्तरि । वाच्ये सर्वेश्वरान्ताद्धातोरुत्तरे इण् वा स्यात् दुहश्च वा। नित्यं प्राप्ते विभाषार्थं वचनम् । अकृतेत्यत्र ‘ऋद्वयाद्विष्णुजनान्तेशोद्धवच्चेत्यनेन सेः कपिलत्वं , 'बामनवैष्णवाभ्यामित्यनेन हरश्च ।