४थः ६६६-४६७] कारक-प्रकरण कतु ३८३ प्रथम-मध्यमोत्तमसंज्ञानां युगपद्वचने प्राप्ते तेषां मध्ये यो द्वयोर्बहूनां वा परः स एव स्यात्वचनन्तु समुदायसंख्यापेक्षम् यथा कृष्णश्च त्वञ्च भवथः, तौ च अहश्च भवामः। वैपरीत्यनिर्देशेऽपि अहश्च त्वञ्च स च भवामः ॥ ६६ ॥ अथ भावे आत्मपदप्रथमपुरुषकवचनम् । तेन अनुक्ते कर्तरि यथा ३६७ । अनुक्ते कर्तरि करणे च तृतीया। अनुक्त इति कारकान्तरविष्णुभक्तिविधानेऽपि योज्यं, स्पष्टतार्थ मेतत्, उक्ते तदभावस्य न्यायसिद्धत्वात् । वैष्णवेन भूयते, वैष्णवस्य च शब्दस्यार्थद्वैविध्यस्वीकारात् । तथापि पृथगिति कृतं स्पष्टतार्थमिति ज्ञेयम् । युगपदिति -युगपदेकदा, वचन एकवचने द्विवचने बहु- वचने प्राप्ते सति । य इति-पुरुष इत्यर्थः । समुदायसंख्यापेक्ष्यमिति— समुदायस्य संख्यामपेक्ष्य भवतीत्यर्थःनतु प्रत्येकसंख्यापेक्ष्यमिति । कृष्णश्च त्वञ्च भवथ इति अत्रैकदैव नाम्नि प्रथमपुरुषंकवचन युष्मदि मध्यमपुरुपैकवचने प्राप्ते तयोः परो मध्यम एव स्यात्, समुदायस्य द्वित्वात् तस्य द्विवचनं यस् । तौचेति-तावित्यनेन पूर्वोक्तयोनमयुष्मदोः परामर्षः। अत्र नाम्नि प्रथमपुरुषेकवचने प्राप्ते तेषां पर उत्तम एव स्यात्, समुदायस्य बहुत्वात्तस्य वचनं मस् । पुरुषाणां परत्वन्तु प्रथममध्यमोत्तमानामिति पाठक्रमेण ज्ञेयं नतु विवक्षाक्रमेण । एतत् सूचयितुमाह वैपरीत्येति- वैपरीत्येन व्यक्तिक्रमेण निर्देशेऽपि तेषां परः स्यादिति शेषः । पुरुषाणां युगपद्वचनप्राप्तिस्तु क्रियाकालयोरेकत्व एव सम्भवतीति । स भवति त्वं गच्छसि इत्यादौ स पचति, त्वं पक्ष्यसि इत्यादौ युगपद्वचनप्राप्तेरसम्भवः । अथेति आत्मपदेति-आत्मपदप्रथमैकवचनमेव भावे इति नियमादिति शेषः । तेनेति--तेन आत्मपदप्रथमपुरुषेकवचनेन । अनुक्ते इति तस्य कर्तयंविहितत्वादिति शेषः ।। e६७ । अनु । सुगमम् । कारकान्तरेति-कारकान्तरे कर्मादौ, द्वितीयादिविष्णुभक्तिविधानेऽपीति । ननु उक्तत्वात् प्रथमैवेत्युक्तमतो
पृष्ठम्:Harinamamrita vyakaranam.pdf/४१४
दिखावट