३७६ श्रीहरिनामामृतव्याकरणम् [४र्थः ६६१ कर्तर्याख्यातं, न तु तृतीया। मालां करोतीति कर्मणि द्वितीया। वैष्णवेन भूयते इति कर्तरि तृतीया न त्वाख्यातम् । कारकञ्च कर्ता दिषड्रविधम् ; तच्च पुनः प्रत्येकं द्विविधम्--उक्तमनुक्तञ्च ॥ ६६१ ॥ सम्बन्धी नतु कारकम् । कृष्णस्य पचतीति कृष्णस्य सम्बन्धेन पचती त्यर्थः। क्रियासम्बन्धविशेषिकारकमिति यहूढलक्षणमुक्तं, तदेव द्रढयति कारकमिति । अव्युत्पन्नं नामेति । करोतीति कारकं षट्, कारकेति णक प्रत्ययान्तेन साधु ; संज्ञाशब्दानां यथाकथञ्चिद्यत्पत्तित्वात् नतु कर्तरि णकप्रत्ययान्तम् । क्रियायाः कर्तृत्वादिनिमित्तमिति विग्रहः। क्रिया जन्य जनकान्तर्भतेत्यर्थः । कारकं निमित्तं हेतुरिति पर्यायःलोकतो व्यव हारात् । यदि करोतीति कारकमिति णकप्रत्ययान्तं स्यात्, तदा कर्तु- शब्देन समानार्थता स्यात्, एवं सति स्वतन्त्रस्यैव कारकपदेनाभिधानं स्यादिति । भाष्यकारस्तु करोतीति कारकमित्याह—आ विक्लित्ते ज्वलनक्रियां कुर्वत् काष्ठमपि, अधिश्रयणक्रियां कुर्वती स्थाल्यपि, स्वावयव- विक्लित कुर्वदन्नमपि, वृक्षात् पत्रं पततीत्यत्र पततः पत्रस्य विभाग प्रत्यात्मनो निमित्ततां कुर्वाणो वृक्षोऽपि, विप्राय गां ददातीत्यत्र गोस्वी कारं कुर्वन् ब्राह्मणोऽपि कारकं भवत्येव, अतएव सर्वाण्येव कारकान्यभि धीयन्ते, तेषान्तु सर्वेषामायोजनं कुर्वन् देवदत्तो मुख्यः सन् कर्ता भवति । यदि पुनः स्वक्रियां कुर्वतां काष्ठादीनामपि मुख्यत्वं विवक्ष्यते, तदा काष्ठं पचति स्थाली पचति ओदनः पचतीत्यद्यपि भवति, तेषां मध्ये यदा यस्य क्रियावाप्यत्वं साधकतमत्वादिव्यापारभेदत्वापेक्षया विधीयते तदा कर्मकरणत्वादिकमिति । यथा चोक्तं— 'निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके । व्यापारभेदापेक्षायां करणत्वादिसम्भवः' इति । तस्य चेति तस्य चोक्तलक्षणलक्षितस्य क्रियासम्बन्धविशेषिणः कारकस्य विशेषतां कर्तृत्वकर्मत्वादिरूपतां व्यञ्जयन्ति-व्यक्तीकुर्वन्ति ये, ते विशेषताव्यञ्जका ज्ञापकाः । आख्यातमाखं येषां ते आख्याताद्याः । द्वितीयाद्या येषां ते। द्वितीयाद्याः । आख्याताद्या इत्याद्यपदेन कृत्प्रत्ययस्य ग्रहणं, द्वितीयाद्या इत्याद्यपदेन तृतीयादेशंहणं, प्रथमाया वाच्यवाचकतलक्षणसम्बन्धमात्र व्यञ्जकत्वेन कर्तृत्वादिव्यञ्जकत्वाभावादिति । ननु के कुत्र विशेषता- ।
पृष्ठम्:Harinamamrita vyakaranam.pdf/४०७
दिखावट