४थः ६५८ ॥ कारकप्रकरणम् ३६९ अथ तत्र परिमाणात्मकं यथा-खारी, द्रोणः, आढकम् ; तत्परि मितश्च-खारी, द्रोणः, आढकम् । उपचारेणाभेदात् यथा,- मञ्च स्थिता जनाः-मञ्चाः। संख्यात्मकं यथा–एकःद्वौ, बहवः ; अत्र प्रकृत्यर्थः सदृशप्रत्ययेनानूद्यते मात्र, केवलापयोगित्वात् कृष्णौ, कृष्णाः इत्यादौ द्वित्वाद्यर्थाधिक्येऽपि प्रथमान्तःपातात् । नारी, यादवःदृष्टकृष्णः इत्यादौ स्त्रीप्रत्ययादिनार्थाधिक्येऽपि पुनर्नामत्व प्राप्तेः ॥ ५८ ॥ विशेषः स्वभावविशेषो लिङ्गम् । ‘धर्माः पुण्य-यमन्यायस्वभावाचार सोमपा' इति नानार्थवर्गः। नन यदि वस्तुनो धर्मविशेषो लिङ्गमित्युक्तं, तदा कथं नाम्नः स्त्रीत्वादीति चेत्तत्राह-तच्चेति तल्लिङ्ग, उपचारात् आरोपात्, तदात्मकं-लिङ्गात्मकम् । स्त्री पुमान् नपुंसकमित्येषां क्रमेण वाप्यादिभिः सम्बन्धः । वापी-दीघका, तड़ागः-पद्मयुक्तजलाशयः, कुण्डं प्रसिद्धम् । क्वचिदिति सुन्दरा दारा इत्यादौ ; दारदेवता दैवतशब्देषु लिङ्गात्मकत्वात् बहुलमीश्वरपरिभाषितं निरूपितं पुंस्त्वादिकं तत्तच्छब्द वाच्ये वस्तुनि च उपचर्यते । दारशब्दः स्त्रीवाचकः पुंलिङ्गो नित्यबहु- वचनान्तश्च । देवताशब्द इन्द्रादिवाचकः स्त्रीलिङ्गः ; दैवतशब्दोऽपि तद्वाचको नपुंसकलिङ्गः। अथेति तत्र लिङ्गात्मके, परिमाणात्मकं यथोदाह्रियते । खर्यादयः परिमाणविशेष । यथोक्तम् –‘अष्टमुष्टि- र्भवेत् कुन्विः कुञ्चयोऽष्टौ च पुष्कलम् । पुष्कलानि च चत्वारि आढकः परिकीर्तितः । चतुराढ भवेद्द्रोणः खारी द्रोणचतुष्टयमिति । तैः खार्या दिभिः परिमितश्च तत्तल्लिङ्गात्मकं खारी द्रोणः आढकं स्यादिति । तत्परिमित इति--पदार्थविशेषणम् । उपचारेणेति ---खर्यादिपरिमिते पदार्थों खार्यादित्वोपचार इति, अव्यापारे व्यापारवत्त्वारोप उपचारःइति । यथेति-मञ्चस्थितेषु मञ्चत्वोपचार इति ; मञ्चः-काष्ठादिनिमित उन्नतः प्रदेशविशेषः । ननु कृष्णः कृष्णौ कृष्णा इत्यादौ यथा स्वादयः संख्यावाचकाः तथा एकदावित्यादौ न, प्रकृत्यैव संख्याया उक्तत्वादतः कथमत्र स्वादय इति चेत्तत्राह-अत्रेति । अत्र एषु एकादिषु शब्देषु प्रकृत्यर्थः एकत्वादिः, तत्सदृशप्रत्ययन स्वादिना अनूद्यते मात्र केवलमनुवादः क्रियत इत्यर्थः ।
पृष्ठम्:Harinamamrita vyakaranam.pdf/४००
दिखावट