३६८ श्रीहरिनामामृतव्याकरणम् [४र्थः ६५८ प्रसरो विस्तारस्तस्मादुपचयः। अयमर्थः-स्तनादिचिह्नः प्रसिद्ध षु स्त्रीपुंनपुंसकेषु अपचयोपचयद्विसाम्यरूपो यो धर्मक्रमो दृश्यते, तं क्रममवलम्ब्य बहुलमीश्वरपरिभाषितो वस्तुनो धर्मविशेषो लिङ्ग- मिति । तच्चोपचारान्नाम्नि प्रवर्तते । तदात्मकं यथा-स्त्री, पुमान्, नपुंसकं, वापी, तड़ागः, कुण्डम् । क्वचिन्नाम्नि च परिभाषितं लिङ्क वस्तुन्युपचर्यते-सुन्दराः दाराःसुन्दरी देवता, सुन्दरं दैवतम् । च । अमी पञ्चैव लिङ्गाद्यास्त्रयः केषाञ्चिदग्निमाः" । स्वार्थ-गृणादिक विशेषणं, द्रव्यं-विशेष्यं, लिङ्ग-पुंस्त्वादि, सह्या-एकत्वादि, कर्म-क्रिया, इति पञ्च-प्रातिपदिकार्थः । ननु सुन्दरः कृष्णः, सुन्दरी राधा, सुन्दरं गोकुलमित्यादौ एकस्य नाम्नो नानालिङ्गत्वात् कथं तन्मात्रत्वमिति चेत्तत्राह-वाच्येति । वाच्यलिङ्गानां शब्दानां तादृशं नामविशेषस्यार्थी स्वभावो वर्तते, तत् सिद्धं लिङ्गञ्च तत्रैव वर्तते । लिङ्गं विनेत्यादौ नामेति गम्यम् । उच्चैरिति नीचैरिति चाव्ययम् । ननु किन्तावल्लिङ्ग तत्राह-लिङ्गमिति । स्त्रीति स्त्रीपुंनपुंसकशब्दानां वाच्यमिति विग्रहः । तदेव भाष्यकारमतेन स्पष्टयति-तच्चेति । तच्च लिङ्ग भाष्ये लक्षितम्, भाष्ये तस्य लक्षणं कृतमित्यर्थः। लक्षणमेवाह-संस्त्यानेति संस्त्यानव प्रसरश्च तौ लिङ्गम् । लिङ्गमिति–लिगि गतो लिङ्गयते ज्ञायतेऽनेनेति करणे घण्प्रत्ययः । संस्त्यानमिति--ष्ठे स्त्यै शब्दसंघातयोः भावे अनः। संस्त्यानं संहतिरिति संहतिमिलनं योनिरूपस्याङ्गस्येत्यर्थः । एकीभावात् । शरीरे मिलनात् अपचयः संकोचः। प्रसर इति प्रपूर्वात् सृ गतावित्य स्मात् भावे अल् । तस्मात् विस्तारात् उपचयः असंकोचः लक्ष्यत इति शेषः । सेफरूपस्याङ्गस्येत्यर्थः। स्तनादिचिह्नरिति-स्त्रियाश्चिह्न स्तनादि, पुंसः श्मश्रादि, नपुंसकस्य स्तनश्मभृद्यवयवरूपम् । तत्तद्यै- श्चित्रैः प्रसिद्धेषु व्याक्तिषु स्त्रयादिषु । अपचयेति–अपचयरूपः उपचयरूपः । तत्र द्विसाम्येति द्वयोरपचयोपचययोः साम्यरूप इति । तथाहि किमपि नपुंसकं स्त्रीचिद्धारि किमपि पुंचिह्नधारीत्येवं यो यो धर्मक्रमो दृश्यते, तं क्रममवलम्ब्य आश्रित्य लक्षीकृत्येत्यर्थः, बहुलं यथा स्यात्तथा ईश्वरेण सर्वकर्मा परिभाषितो निरूपितो वस्तुनः पदार्थस्य धर्म-
पृष्ठम्:Harinamamrita vyakaranam.pdf/३९९
दिखावट