सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६ श्रीहरिनामामृतव्याकरणम् [३यः ८८-८३२ ८३०। काम्यश्च पूवेक्यन्नथ । उच्चारणार्थत्वाद्यभावान्न कित् । धात्वधिकार एवेटो रामधातु कत्वस्य च विधानादिडादिप्राप्तौ द्वयङ्गवैकल्यम् । पुत्रकाम्यति कृष्णम् ॥ ८० ॥ ८६१। यमिवाचरति यस्मिन्निव च तस्मात् क्यन् । पुत्रमिवाचरति-पुत्रीयति रामम्, पुत्रवन्मन्यत इत्यर्थः। वृन्दा वने इवाचरति-वृन्दावनीयति निजोपवने, वृन्दावने यथा व्यवहरति तथेत्यर्थः ॥ ८१ ॥ ८६२। नलोपनिषेधः क्ये । राजनीवाचरति--राजन्यति गोपाले । एवं पथिन्यति गृहे ॥८२ जातिविशेषवचनः । पूजातिवचन इति केचित् । वृषभश्चेति–वृषभो बलीवर्दः। पैमात्र इति-यदुक्तं तत्रामरं प्रमाणयति वृषस्यन्तात्विति । इत्यादीति-पिपासया उदकमिच्छति उदन्यति ; अतिलोभेन धनमिच्छति धनायति । मैथुनेच्छया अश्वमिच्छति अश्वस्यति, एवं वृषष्यति । लालसया क्षीरमिच्छति क्षीरस्यति एवं लवणस्यतीत्यादयः । ८६०। काम्यश्च । पूर्वक्यन्नथं काम्यश्च भवति । पूर्वक्यन्नर्थ इति—पूर्वशब्दप्रयोगात् वक्ष्यमाणक्यन्नर्थो न भवतीति । उच्चारणार्थत्वाद्य भावादिति-करामस्येति शेषः । आदिशब्देन कपिलत्वार्थत्वस्य ग्रहणम् । पुत्रकाम्यतीत्यत्र काम्ये परे इट् कथं न भवतीति ? आशङ्काभासं विधाय समादधाति धात्वधिकार एवेति । इटो रामधातुकस्य च धात्वधिकार एव विधानम्, अतोऽत्र धातुत्वाभावात् रामधातुकपरत्वाभावाच्च न इद् ; एतदेवोक्तं इडादिप्राप्तौ द्वयङ्गवकल्यमतिवकल्यमत्राभावः । पुत्र- काम्यतीति-पुत्रमिच्छतीत्यर्थः। कृष्णमिति पश्चायोगेनेति ज्ञेयम् । ८६१ । यमिवा । व्यक्तार्थमेतत् । पुत्रीयति राममिति—नन्दो यशोदा वेति शेषः । निज्ञोपवने इति--उपवनं कृत्रिमवनम् । ८६२। छौ । क्य परे डॉौ सति न-लोपनिषेधो भवति । राजन्यति गोपाल इति-श्रीदामादिरिति शेषः । विहारानुसारेण कदाचित् कदाचि