सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६ श्रीहरिनामामृतव्याकरणम् [ ३यः ८०७८०८ ८०७। स्फायः स्फार्, शदेरगतौ शात्, इणो गमिर वोधने, क्रीजः क्राप्, अधीङोऽध्याप्, जेर्जाप्, सिध्यतेः साध्-न तु पारलौकिके, दुषो दूष् चित्तकर्मत्वे तु वा णौ । स्फारयति ; शातयति, छिनत्तीत्यर्थः। इण् गतौ-गमयति ; इण्वदिक् -अधिगमयति ; बोधने प्रत्याययति । साधयति अन्नम् ; पारलौकिके-सेधयति परलोकम् ॥ ८०७ ॥ ८०८ । रुहो रोप्, चिजश्चाप्, स्फुरः स्फा , वेतेः प्रजने वाप् णौ वा । रोपयति, रोहयति ; चापयति, चाययति ; स्फारयति, स्फोर यति । आदेशसद्भावे ण कृतस्य स्थानिवत्त्वाद् द्विर्वचनम्--अप्रस्फ रत्, अपुस्फुरत् । वी प्रजनादौ~वापयति, वाययति, गर्भ ग्राहय तीत्यर्थः ॥ ८०८ ॥ ८०७ । सफायः। णौ परे स्फायः स्थाने स्फार् भवति ; णौ पर इति सर्वत्र योज्यम् । अगतावथ वर्तमानस्य शलं शातन इत्यस्य स्थाने शात् भवति । अबोधनेऽर्थे वर्तमानस्य इण गतावित्यस्य स्थाने गमिर्भवति । ङीऊ द्रव्यविनिमये इस्यस्य स्थाने क्राप् भवति । अधिपूर्वस्य इङ अध्ययने इत्यस्य स्थाने अध्याप् भवति । जि जये इत्यस्य स्थान जाएं भवति । षिधु संराद्धौ इत्यस्य स्थाने साध् भवति । पारलौकिकेऽर्थे वर्त मानस्य तु न भवति । सिद्धयतेरिति, निर्देशः षिधु गत्यां षिधु शास्त्रे माङ्गल्ये चेचि द्वयोनिरासार्थः। दुष वैकृत्ये इत्यस्य स्थाने दूष् भवति, चित्तकर्मकत्वेतु वा भवति । शदेरिति, गतौ तु शादयति ; प्रत्याययतीति बोधयतीत्यर्थः। साधयति अन्नमिति धनाकाऊक्षयेति शेषः। दुष इति, दूषयति कृष्णानिवेदितान्नम् । चित्तकर्मकत्वेतु दूषयति चित्तं दोषयति च ।। ८०८ । रुहो । णौ परे रुह जन्मनि प्रादुर्भावे च इत्यस्य स्थाने रोप् वा भवति । चित्र चयने इत्यस्य स्थाने चाप् वा भवति । स्फुर स्फुरणे इत्यस्य स्थाने स्फार् वा भवति । प्रजनेऽर्थे वर्तमानस्य वी धातोः