सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३यः ८०५-८०६ ] आख्यातप्रकरणे णिप्रत्ययान्ताः ३०५ ८०५। लियोरारामो णौ पूजाभिभवप्रतारनेषु, आत्मपदच्च । वैष्णबत्वेन लापयते, आत्मानं पूजितं करोति इत्यर्थः। कृष्णः कंसमुल्लापयते । वालकृष्णमुल्लापयते गोपी । काशिका-भाषावृत्त्यादि सम्मते णावित्यत्रापि शितीति तु प्रक्रिया चिन्त्या ॥ ८०५ ॥ ८०६। भियो भीष्भापौ णौ प्रयोजकाद्यं चदात्म पदच, स्मयतेः स्मापः सभयविस्मयश्चेत् । भीषयते भापयते कंसं हरिः, विस्मापयते च। ‘प्रयोजकात्' इति किम् ? गजदन्तेन भाययति, विस्माययति च तम् ॥ ८०६ ॥ स्फाय, ओप्यायी वृद्ध- भावः । विलाययतीति, उभाभ्यां त्यक्ते पक्षे । आत्त्वेऽपि विलीनयतीति किमर्थमुक्तमिति न निश्चितम् । घृतमिति, पूर्वत्र च योज्यम् । स्नेहेति किमिति, विलापयतीति ; आत्-पक्षे लोहमिति घृतमितिवत् ।। ८०५। लियो। णौ परे पूजायाम्अभिभवे, प्रतारणे चाथं ली ; लीडोरन्त-आरामो भवति, आत्मपदञ्च । कंसमुल्लापयते इति अभि- भवतीत्यर्थः । वालकृष्णमुल्लापयत इति प्रतारयतीत्यर्थः । णावित्युक्त्वा स्वमतस्य कल्पितत्वं वारयितुं णावित्यस्य विशेषणमाह --काशिकेति ॥ ८०६ । भियो । भियो चेत् यदि प्रयोजकाद्यं भवति, तदा बि भी भये इत्यस्य स्थाने पाणौ परे भीष् भापौ भवतः, आत्मपदञ्च । प्रयोजकात् सभयविस्मयो यदि भवति, तदा स्मिञ् ईषद्धसने इत्यस्य स्थाने स्मार् भवति, आत्मपदच्च । भीषयते भापयते विस्मापयते च कंसं हरिरिति अत्र हरिः प्रयोजककर्ता, ततो भयं सभयविस्मयश्च । गजदन्तेनेति, गजोऽत्र कुवलयापीडः । तमिति, कंसमित्यर्थः । अत्र प्रयोजकात् न भयं सभयविस्मयश्च, किन्तु करणागजदन्तात् ।। ३६