सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३यः ७९-८०२] आख्यातप्रकरणे णिप्रत्ययान्ताः ३०३ जिष्वप् शये -- ८००। स्वापेः सङ्कर्षणोऽङि । ततो द्विर्वचनम् असूषुपत् ॥ ८०० ॥ ८०१। शा-छा-सा-वा-व्या-वेपाभ्यो युक् णौ । ‘पा’ इति पा पै च गृह्यते, रक्षणार्थस्तु न, ‘सन्देहे तु न लुग्वि करणस्य ग्रहणम्’ इति न्यायात् ; शाययति इत्यादि। ‘हे नर नारायणयोः(६३५) इति सङ्कर्षण एव, न तु युक्, अन्तरङ्गत्वात् अजूहवत् ॥ ८०१ ॥ ८०२ सनरस्य पिवतेरङ परे ण पीप्यःतिष्ठते स्तिष्ठिपः, जिघ्रतेश्च जित्रिपो वा । अपीष्यत् इत्यादि । ऋ गतिप्रापणयोःऋ सृ गतौ, ‘अत हो नरलघोरिति, विष्णुजनादीति च स्वसंज्ञानुसारेणोक्तम् । त्रिविक्रमः स्यादे वेति, लघुयुक्तधात्वक्षरपरत्वात् धातोविष्णुजनादित्वाभावेऽपि त्रिविक्रमो भवत्येव । उद्धवसंज्ञस्येत्यादीति, ‘उद्धवसंज्ञस्य ऋद्वयस्य ऋर्वा अङऊ परे णाविति लक्षणम् । अवीवतदिति, ‘ऋरमस्य ऋ: अन्यथा गोविन्दः स्यात् । अमीमजादित्यत्र वडणोन्द्रः स्यात् । त्रिष्वप् शय इति, यल्लिखितं तन्न बहुप्रयोजनकमिति ज्ञेयं, पूर्वमेव लिखितत्वात् ।। ८०० स्वापेः। अङि परे स्वापेः सङ्कर्षणो भवति, असुषुपदिति। ईश्वरहरिमित्रेत्यादिना विरिञ्चिसस्य षत्वम् ।। ८०१ शा। णौ परे शो तनुकरणे, छो छेदने, पोऽन्तकर्मणि, वेब- पद्धयांव्यञ्ज सम्वरण, वेञ्ज तन्तुसन्ताने इत्येतेभ्यः पाधातोश्च उत्तरे युक् भवति । पा पैचेति, पा पाने, पं शोषणं । रक्षणार्थस्तु नेति, पा रक्षण इति न गृह्यते ; अग्रहणे हेतुमाह सन्देहेत्विति । लुग्विकरणस्येति अदादेरि त्यर्थः । युगभावे हेतुमाह अन्तरङ्गत्वादिति । प्रकृत्याश्रितत्वादन्त रङ्गवम् । भाष दीप जीव मीलेत्यनेन उद्धवस्य वामनत्वविकल्पात् । वामनाभावपक्षे अजूहवदिति ।।