३यः ७८४-७८५ ] आख्यात-प्रकरणे त्यादिः २६३ क्षभ सञ्चलने ७८४। क्षुभ्नादिषु न णत्वम्। क्षुभ्नाति, क्षुभ्नीतः इत्यादि । उक्ते वक्ष्यमाणे च निषधोऽप्रम् । तृपु तर्पणे तृप्नोति, तृप्नुतः इत्यादि ॥ ७८४ ॥ ७८५ । नरान्नृतिश्च । नरीनृत्यते, नरीनति इत्यादि। परिनदनम्दुर्नद्धः, दुर्नद्धिः, दौर्भागिनेयः, आचार्यानी, आचार्यभोगिनः। संज्ञायाम्-हरिनन्दी, हरिनगरम्, स्वर्भानुःसूत्रनटः, दुर्नामा, नरवाहनः, त्रिनयनम्, नूनम नम्, पुनर्नवा –-आकृतिगणोऽयम् ॥ ७८५ ॥ ७८४। क्षुभ्ना। क्षुभ्नादिषु णत्वं न भवति । उक्ते इति । उक्ते वक्ष्यमाणे च णत्वे उक्तस्य वक्ष्यमाणस्य चेत्यर्थः ।। ७८५। नरा । नरादुत्तरो नृतिश्च क्षुभ्नादिषु ज्ञेयः । क्षुभ्नाती त्यादौ तृष्नोतीत्यादौ नरीनृत्यत इत्यादौ दौर्भागिनेय इत्यत्र आचार्या नीत्वत्र आचार्यभोगीन इत्यत्र च ‘र-ष-ऋद्वयेभ्य’ इत्यादिना प्राप्ते निषेधः। परिननमित्यत्र 'उपेन्द्रान्नोपदेशस्य णत्वमित्यनेन प्राप्ते निषेधः । शेषेषु वक्ष्यमाणलक्षणेन प्राप्ते निषेधः। नरीनृत्यत इति यङि । नरीनर्तीति यङ्लुकि। परिनदनमिति परिपूर्वात् णदधातोरनप्रत्ययः । दुर्नद्ध इति दुपूर्वात् नहुधातोः क्त-प्रत्ययः । दुर्गद्धिरिति क्ति-प्रत्ययः । दौर्भागिनेय इति दुर्भगा-शब्दात् अपत्यार्थे ‘कल्याण्यादेर्माधवेनेयःइत्यनेन माधवेनेयः 'टणिन् माधवः'। आचार्यानीति आचार्यस्य भार्या इत्ययं ईप्प्रत्ययेन निपातः । आचार्यभोगिन दति आचार्यभोगशब्दात् तस्मै हितमित्यर्थं विश्वजनात्मभोगोपदेभ्यः खरामः इत्यनेन खः, ख ईणः भोगः शरीरम् । हरिनन्दीत्यादयः संशब्दाः । तत्र हरिनन्दी कश्चित् । हरिनगरमपि तथा । स्वर्भानुः राहुः सूत्रनटः कश्चित् । दुर्नामेति 'दुर्नामा दीर्घकाषि के’त्यमरः । नरवाहनः कुबेरः। नूनमनं तत् संशं किञ्चित् । पुनर्नवेति 'पुनर्नवा तु शोधनी’त्यमरः । आकृतिगणोऽयमिति । अतो लक्षणप्राप्तं
पृष्ठम्:Harinamamrita vyakaranam.pdf/३२४
दिखावट