सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीहरिनामामृतव्याकरणम् [ ३यः ७७५-७७६ २६० ७७५ । ससुट्कात् कृन इडधोक्षजे । सञ्चस्करिथ, सञ्चस्करिव । शास्त्रीयभाषार्थः 'संस्कृत-शब्दः कार्यपर्यायस्तच्छब्दःसंस्कारशब्दश्चाव्युत्पन्नः । षत्वं वक्ष्यते (६३६)परिष्करोति ॥ ७७५ ॥ ७७६ । उपादेषण-समवाय-प्रतिधनविकृतीकरण- वाक्याध्याहारेषु। तत्र सतो गुणान्तराधानम्-‘प्रतियत्नः ; गम्यमानार्थस्य वाक्य स्योपादानम् -‘वाक्याध्याहारः ; उपस्करोति, उपस्कुरुते ॥ ७७६ ॥ इति तनादिः । ७७५। ससु । सुटा वर्तमानः ससुकः तादृशात् कुज उत्तरे अधो- क्षजे परे इड् भवति । थलि 'ऋरामत्तु नित्यं नेडित्यनेन अन्यत्र क्रादिनियमे नाप्राप्ते विधानम । सकादिति किंक-चकर्थ, चकृव, चकृम शास्त्रीयेति शास्त्रीयभाषार्थेऽभिधेयो यस्येति विग्रहः । कार्य । पर्याय इति । कार्यं जन्यं घटपटादिपर्यायो यस्येति विग्रहः । तच्छब्दः संस्कतशब्दः संस्कारशब्दश्चेति अत्र संस्कारशब्दो व्याकरणादिशास्त्र । परिज्ञानजन्यज्ञानविशेषवाची, नतु भूषणवाची, तस्य व्युत्पन्नत्वात्, अव्युत्- पन्न इति भूषणार्थस्य समवायार्थस्याप्रतिपन्नत्वात् । समवाये यथा अस्माकं संस्कृतं परिष्कृतं समूह इत्यर्थः ।। ७७६ । उपात् । भूषणे समवाये प्रतियत्ने विकृतीकरणे बाक्या ध्याहारे च अर्थे उपादुत्तरे सुट् भवति । सत इति विद्यमानस्य वस्तुन इत्यर्थः । गम्येति गम्यमानो नवभिधीयमानोऽर्थो यस्य तादृशस्य वाक्यस्य क्रियान्वयावच्छिन्नपदसमूहस्य उपादानं ग्रहणम् । भूषणे-गोपीदेहमुपस्क रोति, समवाये अस्माकमुपस्कृतं समूह इत्यर्थः । प्रतियत्ने-गङ्गाजल मुपस्करोति सुवासयतीत्यर्थः । विकृतीकरणे-उपस्कृतं भुङ्क्ते, वाक्याध्या हा-उपस्कृतमधीते । ।। #॥ । इति तनादिः ।। * । ।