सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ श्रीहरिनामामृतव्याकरणम् = [ ३यः ७५४ गफ गनफ ग्रन्थे-- ७५४ । गन्फादेर्नलोपः शे वा । गुफति, गुम्फति । नरामवंयथ्यादेव नलोपो न स्यादिति चेत्, रामधातुके सार्थकं स्यात्- गोफिता, गुम्फिता। स्पृश् संस्पर्शने स्पृशति। अस्प्राक्षीत्अस्पाक्षीत्, अस्पृक्षत् । प्रच्छ शीप्सायाम् पृच्छति । अप्राक्षीत्। सृज् विसर्ग : विसर्गः-सृष्टिस्त्यागो वा सृजति। अत्राक्षीत्। दुमस्जो शुद्धौ ; शुद्धिरिह स्नानम्, अवगाहे तु प्रयोगबाहुल्यम् ; मज्जति । लोपविधेर्बलवत्त्वात् कृते सलोपे नुम् (७३३)-अमाऊीत् । संयुक्तविष्णुजनमध्यत्वान्नैत्वादि--मम ७५४। गुफा । शे परे गुफादेर्नलोपो वा भवति । पाक्षिक न ‘अनिरामेतामित्यादिना नरामहरस्य नित्यत्वात् गुम्फतीत्यादिकं न सिद्धयतीति लोपविधानं कृतम् । अत्राशङ्कते नरामेति । समादधाति रामधातुके इति । सार्थकमिति न । नरामाक्षरमिति शेषः । ननु गुम्फादे नलोपो वेति सूत्रस्य किं प्रयोजनं ? उभयोरुपादानात् गुफति, गुम्फति द्वयमिति सिद्धं स्यात् भद्रं यहि एतत् सूत्रं न क्रियते, तदा 'अनिरामेता- मितिसूत्रेण नलोपो नित्यमेव सम्भवति । नन्वेतन्नहि नरामग्रहणस्य वैयदेव नलोपो न स्यात् श्रूयतां चेदीति ब्रवीसि तदा यक् कामपालादौ रामधातुके परे सति गुफ्यते गुर्यादित्यादावनिरामेतामि त्यादि-सूत्रवलात् नलोपे सति अस्य सूत्रस्य सार्थकं स्यात्, बालकल्वयादौ परे उभयोर्फगुम्फोगूहणमपि सार्थकं स्यात्, गोफितेति गुफधाता रूपम् । गुम्फादेरित्यादिपदेन शुम्भ शोभायै, उन्भ पूरणे इत्यादेर्गुहृणम् । "गुम्फ- तिस्तृम्पतिश्चैव तुम्पतिस्तुम्भतिस्तथा । रिम्फतीरुभतिः शुम्भिः सप्त गम्फादयो मताः । अस्माक्षीदिति कृष्-स्पृश्-मृल्-तृट्-दृप्-सृपः सिङ्ग इत्यनेन सः, 'ऋरामोद्धव सहजानिटोऽम् वा वैष्णवादावकपिले’ इत्यनेन अम् । अस्पाक्षीदिति अमभावपक्षे । अस्पृक्षदिति सेरभावपक्षे ‘ईशोद्धवा- दनिटो हरिगोत्रान्तात्' इत्यनेन सक् । त्यागो वेति त्यागो दानं, अस्राक्षी- दिति ‘सृजि-दृशोरम् कपिल-वैष्णवे' इत्यनेन अम् । शुद्धिरिति स्नानं विधिपूर्वकमज्जनं, अवगाहस्तु केवलमञ्जनं विहारपूर्वकमज्जनञ्च ।