३यः ७४६-७५३ ] आख्यातप्रकरणे तुदादिः २८१ दन्तस्य' (५६०) इति गोविन्दः, ‘द्विविष्णुजने' (४७६) इति नुडि ष्यते—आनच्, आनच्छतुः। उद्धवत्वाभावान्न गोविन्दः ऋच्छिता। कृ विक्षेपे ; ‘रामस्येर्’ (५७७)-किरति ; कीर्यते । चकरतुः। करिता, करीता ॥ ७४ ॥ ७५० । उपात् सुट् किरतौ छेदने । उपस्किरति ॥ ७५० ॥ ७५१। अन्नर-व्यवधानेऽपि । उपास्किरत्, उपचस्कार ॥ ७५१ ॥ ७५२। उप-प्रतिभ्यां सुट् किरतौ हिसायाम् । उपस्किरति, हिंसापूर्वकं क्षिपतीत्यर्थः । एवं प्रतिस्किरति इत्यादि ॥ ७५२॥ गृ निगरणे ; निगरणं गलाधःकरणम् ; ७५३ । गिरो रो लः सर्वेश्वरे वा, नित्यन्तु यङि । गिरति, गिलति ॥ ७५३ ॥ त्वाभावादित्येवोक्तं अथवा यत्र यत्र लघुत्वाभावस्तत्र उद्धवत्वाभावस्य आवश्यकता नास्ति, यत्र यत्र उद्धवत्वाभाव स्तत्र लघुत्वाभावस्यावश्यक तेति मुख्यहेतुतया T उद्धवत्वाभावस्यैव निर्देशः कृतः । चकरतुरिति ‘सत्सङ्गा द्यदन्तस्येत्यादिना गोविन्दः करीतेति ‘ऋरामवृभ्य इटस्त्रिविक्रमो वे ' त्यादिना इटस्त्रिविक्रमः । । ७५० । उपात् । छेदनेऽथं किरतौ कृधातौ परे उपादुत्तरे सुट् भवति, उटावितौ । उपस्किरतीति छेदनपूर्वकं विक्षिपतीत्यर्थः ।। ७५१ । अत् । अतो नरस्य च व्यवधानेऽपि सुट् भवति ।। ७५२ । उप । हिंसायामथै किरतौ परे उप-प्रतिभ्यामुत्तरे सुट् भवति । ७५३ । गिरो। सर्वेश्वरे परे गिरो रो लो वा भवति, यडितु परे नित्यं भवति । •३६
पृष्ठम्:Harinamamrita vyakaranam.pdf/३१२
दिखावट