सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३यः ७२-७३१ ॥ आख्यात-प्रकरणे दिवादिः २७३ र हिंसायाम् –ध्यति । नुम्, ‘यस्य विष्णुस्तस्य सोऽङ्गम् इति न्यायेन धात्वङ्गत्वान्नस्य हरः-अरधत् ः यथा भाषावृत्ता वाङोऽपीति लभेनैं मं विधाय ‘आलम्भ्यः पशुःइति साध्यते । ‘आल भ्यते' इत्यत्रानिदित्वान्न-लोपः क्रियते, तस्मात् प्रक्रिया (पा ३।१४६ ७१६२) चिन्त्या । ७३०। रथादेरिड्वा। ७३१ । रीनिषेधोऽधोक्षजवजतेटि। अरत्साताम्, अरधिषाताम्। अधोक्षजे तु - ररन्धिथ, ररन्धिव नियमवलान्नित्यमिट्। तृप् प्रीणने-तृप्यति । ‘कृष्स्पृश' (५३५) इति–अतृपत्, अतर्षीत् ; सहजानिट्सु पाठादम् वा-अताप्सीत् । एवं दृप् हर्षविमोचनयोः। मुह, वैचित्ये - मुह्यति । अमुहत्। मोग्धा, मोढा, मोहिता ॥ ७३०३१॥ तीति आङोऽपीत्यनेन लक्षणेत्यर्थः । आलम्भ्य इति आङ्पूर्वो लभिर्मा रणार्थः । आङोऽपि ‘लभेर्नुम्' हिंसायां इत्येव तत्सूत्रमत्र भाषावृत्ति मतोत्थापनस्य आलभ्य इत्यत्रैव प्रयोजनम् । नत्वालम्भ्य इत्यत्रेति ज्ञेयम् । आलम्भ्यः पशुरित्यर स्योत्थापनन्तु नुम् विधानलक्षणस्य उदाहरणदर्शनार्थ मेव । तस्मादिति । अरधदित्यादौ नलोपो न भवतीति प्रक्रियामतम् ७३० रधा । रथादेरुत्तरे इड्वा भवति । ७३१ राध । अधोक्षजं वर्जयित्वा अन्यस्येटि परे रधेर्नाम न भवति, अधोक्षजेटि तु परे नुम् भवत्येव । नियमेति क्रादिभ्य एव अधोक्षजमात्र नेडिति नियमः कृतस्तद्वलात् । ‘कृष्-स्पृश्'-इतीति पाक्षिक ल्लेखः । अम् वेति ‘ऋरामोद्धव-सहज़ानिटोऽम् वा वैष्णवा दावकपिले’ इत्यनेनेति शेषः । अताप्सीत्, अत्रासीदिति ‘विष्णुजनान्ता नामित्यादिना वृष्णीन्द्रः। मुह वैचित्त्ये, वैचित्यं व्याकुलता। मोग्धेति ‘हस्य ढ इत्यादौ द्रह-नश-स्नुहस्निहां वा विष्णुपदान्ते वैष्णवे चे’त्यनेन हस्य घः । मोढेति घरामाभावपक्षे । मोहितेति इष्पक्षे ।। -३५