सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३यः ६७२-६७४ ] आख्यातप्रकरणे अदादिः २५३ ६७२। अस्तेर्भूत्रवो वची रामधातुके । भूयते । स्यात्, स्याताम् । षत्वे-निष्यात् । अस्तु, स्ताद्वा ॥६७२॥ ६७३। अहेरेधि। एधि। पक्षेस्तात् । असानि । ‘अस्तिसिभ्यामी' (४४६) आसीत् ॥ ६७३ ॥ ६७४। अस्तेर्नारामहरो भूतेश्वरे । आस्ताम्, आसन् । अभूत् । भुवं प्रति महाहरोऽयं सन्निपातस्तस्य विघाताय न भवति । वभूव इत्यादि ॥ ६७४ ॥ ६७१ । अस्तेः। एरामे परे अस्तेः सस्य स्थाने हो भवति । ननु इन्दमासे इत्यत्र सस्य हः कथं न स्यादिति चेत्तत्राह तत्रेति । असिद्ध रूपं न त्याज्यमितिप्रतिज्ञासिद्धयर्थम् इदं तत्रैव कर्तुं योग्यमपि यन्न कृतं तस्मात्तत्राकरणादनुप्रयोगे सस्य हो न भवति, एराम इति सान्निध्या दस्तेरेव एरामो गृह्यते, अत इन्दमासे इत्यत्र न सस्य हः, अत्र एरामः नास्तेः किन्त्विन्दधातोरित्यपि सिद्धान्तान्तरं ज्ञेयम् । तिपेति कृत् प्रकरणोक्तेन तिप्-प्रत्ययेन धातुस्वरूपस्य निर्देशात् न भवतीति कालापा बदन्तीति शेषः । धातुस्वरूपनिर्देशादिति धातुनिर्देशादित्यर्थः । शतपाध धातुनिर्देशात् केवलस्याऽधातोः सस्य हो भवति, नत्वनुप्रयोग युक्तस्येति तेषां भावः ।। ६७२ अस्तेः । रामधातुके परे अस्तेः स्थाने भूर्भवति, बूत्र व्यक्तायां वाचि इत्यस्य स्थाने वचिर्भवति ।। ६७३ । अहेः। अहेः स्थाने एधि भवति । अस्हेरिति प्रकृति- प्रत्ययसमुदायनिर्देशः । आसीदिति ‘अस्ति सिभ्यामीदिसिपोरिति ६७४ । अस्तेः । भूतेश्वरे परे अस्तेररामहरो न भवति । अभू दिति भावे कृते इण्-स्था-पिवति' इत्यादिना से महाहरः । ननु अभू दित्यत्र से महाहरे कृते पुनः असरूपं कथं न स्यादिति चेत्तत्राह भुवं प्रतीति । तस्येति भुव इत्यर्थः ।।