२४२ श्रीहरिनामामृतव्याकरणम् [ ३यः ६३३-६३७ ६३३। लिपि-सिचि-वो के भूतेशे कर्तरि। ६३४ । आत्मपदे तु वा। आरामहरःअद्वत् ; अह्नत, अट्टास्त ॥ ६३३-६३४ ॥ ६३५। ख़ो नरनारायणयोः संकर्षणो नामधात विना । जुहाव। वस् निवासे--वसति -- ६३५ ॥ ६३६ । वसि-घस्योः षः। उष्यते ॥ ६३६ ॥ ६३७। सस्य तः सरामादिरामधातुके। अवात्सीत्, अवात्ताम्, अवात्सुः। उवास, ऊषतुः ; उवस्थ, उवसिथ। वद् व्यक्तायां वाचि- अवादीत् । टुओश्वि गति-वृद्धयोः दु ओ’ इतौ ; श्वयति, श्वयते ; शूयते ॥ ६३७ ॥ क्रियमाणे तदनिमित्तं वहिरङ्गमसिद्धं स्यादित्यनेन यरामस्यासिद्धत्वात् सपरसर्वेश्वर-ररामस्याभावस्तस्मात् पुनः सङ्कर्षणसम्भावनैव न स्यादिति न क्वचिद्विरुद्धं स्यादिति ज्ञेयम्, वीयादिति ‘सङ्कर्षणे', कृते ‘त्रिविक्रमः' ।। ६३३ । लिपि । लिप उपदेहे, f च् क्षरणे, ह्या स्पर्धायां इत्ये तेभ्य उत्तरे कर्तरि वाच्ये भूतेशे परे डो भवति ।। ६३४ । आत्म । आत्मपदेतु डो वा भवति । ६३५ । बोनर । नामधातुं विना ह्यो नर-नारायणयोः सङ्कर्षणो भवति। जुहावैति ‘हस्य जो नरस्येति हस्य जत्वम् । प्रत्युदाहरणं वक्ष्यते । ६३६ । वसि । वसिघस्योरन्तः षो भवति । घसीति घस्ल अदन इत्यस्य घसादेशस्य च ग्रहणम् । ६३७ । सस्य । सरामादि-रामधातुके परे सस्य स्थाने तो भवति । सराम-रामधातुक इति वा पाठः । अवादीदिति वदव्रजयो वृष्णीन्द्रः सौ परपदे’ इत्यनेन वृष्णीन्द्रः ।
पृष्ठम्:Harinamamrita vyakaranam.pdf/२७३
दिखावट