२३२ श्रीहरिनामामृतव्याकरणम् [ ३यः ६६४-६०३ ६०० । अयास-दयेभ्य आमधोक्षजे । अयाञ्चक्र। ओप्याय वृद्ध ; अ -ई-रामाबितौ ; प्यायते ;–।६०० ॥ ६०१ । दीप्जनी-बुध्यति-पूरी-तायिप्यायिभ्य इण् वा भूतेश-ते कर्तरि । ६०२। पदस्तु नित्यम् । ‘इणस्तो हरः( ४२५ ) -अप्यायेि, अप्यायिष्ट ॥ ६०१६०२ ॥ ६०३ । प्यायः पीयेऽधोक्षजयोः। 1992 ५६ । प्रपरा । अयधातौ परे प्र-परा-परीणां ररामस्य स्थाने लरामो भवति । प्र-परा-परीणामिति, सान्निध्यात् अयतेरेव प्रपरापरयो गृह्यन्ते, तेन प्रगता आयका यस्मात् स प्रायको देश इत्यादौ न भवति । ६०० । अया । अधोक्षजे परे अय गतौ, आस उपवेशने, दय दान गति रक्षण हिंसादानेषु इत्येतेभ्य उत्तरे आम् भवति । ६०१। दीप । दीपी दीप्तौ, जनी प्रादुर्भावे, बुध अवगमने, पुरी आप्यायन, तायु विस्तारपालनयोःओप्यायी वृद्ध इत्येतेभ्य उत्तरे कर्तरि वाच्ये भूतेश-ते परे इण् वा भवति, बुध्यतीतिनिर्देशात् भ्वादेर्न ग्रहणम् ।। ६०२। पद । कर्तरिवाच्ये भूतेश-ते परे पद गतावित्येतस्मादुत्तरे इण् नित्यं भवति ।। ६०३ । प्यायः । यङि अधोक्षजे च परे प्यायः स्थाने पीर्भवति, 'पी' इत्यस्य एकवर्णत्वाभावात् नान्ते प्रवर्तते, पिप्ये इति आदेशानन्तरं द्विर्वचनम् । कासाञ्चक्र इति, सौधंगूहविशेषेः। ‘सौधोऽस्त्री राजसदन मि’त्यमरात् । ननु ‘वाणं विकारः सन्धिः स्याद्विषयापेक्षकः क्वचिदित्य- नेन सन्धविषयापेक्षकत्वात् शपा सह सन्धिमकृत्वा गाते गाते इत्यत्र द्विवचनबहुवचनविषये प्रथमतः ‘अ-त आ ईस्तथयोरित्यनेनारामस्य ईत्वं कथं न स्यात्, शपोऽरामविद्यमाने अन्त इत्यस्य नरामहो वा कथं स्यादिति चेत् केनाप्युक्तम् । तत्रैवं समाधेयं, विषयापेक्षकः क्वचिदित्यस्य पारिभाषिकत्वेन, तत्र क्वचिद् ग्रहणेन च, मातृवत् परिभाषेति नेष्टं हि
पृष्ठम्:Harinamamrita vyakaranam.pdf/२६३
दिखावट